SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7682 A DESCRIPTIVÈ CATALOGUE OF तत्रभवान् कविरादौ कालिकाष्टकरचनां कुर्वन् काली वश्यप्रधानिकेत्युक्तरीत्या कालिकाया वश्यप्रधानत्वात वश्यकालिकाध्यानमाह-अम्बां चेति अम्बां चन्द्रकलाभचारुतिलकामानन्दसंदायिनी मन्दारामलहेमसूनविलसन्मालापरिभाजिताम् । मन्दस्मेरमुखीं करोज्वलगदाखडोग्रशूलां शिवां वन्देऽहं शरदिन्दुशुभ्रवदनां वाचा मधुस्यन्दिनीम् ।। चन्द्रस्य हिमांशोः ‘हिमांशुश्चन्द्रमाश्चन्द्रः' इत्यमरः । तस्य कला एकभागः ‘कला तु षोडशो भागः' इत्यमरः । तस्या आभेवाभा शोभा आकतिर्वा ' आमा कान्त्यामाकृतौ स्यात्' इति कामन्दकः । तदस्यास्तीति तथोक्तं चारु च तत् तिलकं तमालपत्रम् 'तमालपत्रं तिलकम् । इत्यमरः । चन्द्रकलाभं चारुतिलकं यस्यास्ताम् ; प्रतिपच्चन्द्रकलातुल्य. कुङ्कुमतिलकामित्यर्थः । End: एतत्स्तोत्रपाठकस्य फलमाह-अम्बाष्टकमिति। भुवि भूतले. सर्वकल्याणः सः बान्धवसुतातिशयाभिवृद्धिं बान्धवानां सगोत्राणां सुतानां पुत्राणां स्वस्य चातिशयमत्यन्तमभिवृद्धिं साम्राज्यं त्वं प्राप्नोति भवति विन्दतीत्यर्थः । वसन्ततिलकावृत्तम् ; 'उक्ता वसन्ततिलका तभजा(ज)गौ गः ॥ Colophon: इति श्रीमत्षष्टिघटिकाश्रावितसप्तकाण्डीलक्षणलक्षितेन श्रीमद्वेल्लंकिकुलतिलकेन नरहरिदीक्षितसू नुना वीरमाम्बागर्भसागरसुधाकरेण सर्वागमरहस्यवेदिना सीतारामाख्यविदुषा विरचितायां शक्तित्रयाष्टकव्याख्यायां सर्वांगमार्णवाख्यायां चतुर्थस्तरङ्गः॥ For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy