SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 7681 सीतारामसुधीरुदारकवितालक्ष्मीधरोऽम्बाष्टकव्याख्यानं महितागमार्णवसमाख्यानं करोति स्फुटम् ॥ सीतारामेण विदुषा श्रीवेल्लंक्यन्वयेन्दुना । .. व्याख्या स्तोत्रत्रयस्येय तनु(न्यते) ह्यागमार्णवः ।। ग्रन्थस्य स्वाप्निको रामः कर्ता नाहं तदीक्षणात् । बिम्बानुबिम्बरूपेण मया किंचिदुदीयते ।। कालीलक्ष्मीसरस्वत्यस्तत्तस्तोत्रार्थवर्णने । कुर्वन्तु मम साहाय्यं वाग्लक्ष्मीविजयप्रदाः ॥ ग्रन्थमेतं समालोक्य शिष्येणेति कृतं मया । तदादरं प्रकुर्वन्तः शुद्धि कुर्वन्तु पण्डिताः ।। इह खलु कवितासार्वभौमः शेषाचलाख्यः कविः महाकालीमहा. लक्ष्मीमहासरस्वतीदेवतास्तोत्रत्रयं चिकीर्षुरादौ कालीस्तोत्रमारभमाणस्तदादौ — मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राणि प्रघीय(थ)न्ते' इति वचनात् तत्कालस्तिोत्रे शार्दूलविक्रीडितवृत्तानुसृत्या वृत्तस्यादौ मगणप्रयोगात् 'मगणस्य धरा देवी लक्ष्मी यच्छति नित्यशः' इति वचनात् मङ्गलं सूचितं कृतवानित्याशयः आदौ अकारप्रयोगादपि 'अकारो ब्रह्मविष्ण्वीश-' इत्यादिकोशात् अकारस्य सर्वदेवतावाचकत्वेन सर्वदेवतास्तुतिरूपमङ्गलं कृतमिति वा आशयः । ननु आद्यस्तोत्रं काल्या इत्युक्तम् ; तत्कथमिति चेत्, तद्देवतालिङ्गानि बहुशः स्तोत्रे सन्तीति कृत्वा काल्या इत्युक्तम् । तथाहि आद्यपद्ये करोज्वलगदाखडोप्रशूलामिति । 'कालिकेति समाख्याता हिमाचलकृताश्रया' इति वचनैः काल्या एव सृष्टिकर्तृत्वमिति सवमनवद्यम् ।। Colophon: इति श्रीषष्टिघटिकाश्रावितसप्तकाण्डीबिरुदाङ्कितकौण्डिन्यकुलतिल. केन वीरमाम्बागर्भाम्बुधिसुधाकरेण श्रीमदच्चणाध्वरिसूनुना सीतारामेण कृतायां स्तोत्रत्रयव्याख्यायामागमार्णवसमाख्यायां प्रथमस्तरङ्गः ॥ For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy