SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 7623 इति स्मतेः सघः शिवेतरक्षतये तालक्षारबद्धशतर मयशिक्योपरि स्थित्वा प्रतिश्लोकमेकैकरजुकृन्तनेन श्रीभगवन्तं सूर्यमेभिर्जम्भेत्यादिस्तवैः स्तुत्वा श्वेतकुष्ठाद्विमुक्त इति जनश्रुतिः । तानि यथामति व्याकुर्मः। प्रारिप्सितस्य ग्रन्थस्याविघ्नपरिसमाप्त्यर्थ शिष्टाचारपरिप्राप्तमिष्टदेवताजम्मारातिस्मरणलक्षणं मङ्गलाचरणं स्वेनानुष्ठितं शिष्यशिक्षार्थमादावुपनिबध्नाति जम्भारातीत्यादिना। प्रथमं तावदेकोनविंशतिश्लोकैः रश्मीन्वर्णयति । जम्भारातेरिन्द्रस्य ‘जम्मभेदी हरिहयः' इत्यमरः, य इभः ऐरावतः तस्य कुम्भे उद्भवो यस्य तं सान्द्रसिन्दूररेणुं निबिडसिन्दूररजो दधतः धारयन्त इव रक्ताः लोहितवर्णाः हस्तिकुम्भे शोभायै सिन्दूरं समारो. प्यते । End: श्लोका लोकस्य भूत्यै शतमिति रचिता श्रीमयूरेण भक्त्या युक्तश्चैतान् पठेद्यः सकृदपि पुरुषः सर्वपापौर्विमुक्तः । आरोग्य सत्कवित्वं मतिमतुलबलं कान्तिमायुःप्रकर्ष विद्यामैश्वर्यमर्थ सुखमपि लभते सोऽत्र सूर्यप्रसादात् ।। Colophon: इति श्रीमहाकविमयूरभकृतसूर्यशतकं समाप्तम् ॥ श्लोका लोकस्येति फलस्तुतिः स्पष्टैव । नन्दाब्जै(१९)वर्णितो रश्मिईि सूर्ये (२४)वर्णितं महः । रसै(६)रश्वः स्तुतः पद्यैः सूर्ये (१२)ररुण ईडितः ॥ रुदै(११)रथ रथं स्तुत्वा मण्डलं वसुभिः(८)स्तुतम् । खनेत्र(२०)वर्णितः सूर्य (यः)स्तुत्वा मुक्तो महागदात् ।। वंशेऽभूद्भार्गवस्य द्रविडजनमहान्वेदवेदाङ्गवेत्ता लक्ष्मीनारायणाख्यो रघुपतिचरणध्यानलब्धावबोधः । तत्सूनू रामचन्द्रो जनकनृपसुताजानिपादानुरक्तो व्याख्येयं तेन हंसी व्यरचि च विदुषां मानसैकालयासौ ॥ 579 For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy