SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TIE SANSKRIT MANUSCRIPTS. 7457 तस्य वेदान्तसारभूतनवनीतपिण्डात्मकत्वेन तदीयविषयादिभिरेव तद्वत्तासिद्धिमभिप्रेत्य आदौ प्रतीचः सकलजगदधिष्ठानत्वेन परमेश्वरतां दर्शयन् दक्षिणाशामुखं परमेश्वरं मनसा पूजयति विश्वं दर्पणदृश्यमान ( . . . . . . ) मीडे॥ विश्वं विविधप्रत्ययगम्यं वियदादि सर्वमिदं जगत् निजान्तर्गतं निजं स्वीयमन्तर्मध्यं गतं प्राप्तम् ; प्रत्यक्स्वरूपे स्थितमिति यावत् । निर्विकारे नीरन्ध्रे अतिस्वच्छे असङ्गे सूक्ष्मे प्रतीचि जगतस्तद्विपरीतस्य स्थितौ दृष्टान्तमाह-दर्पणदृश्यमाननगरीतुल्यमिति । End: पुनर्भूयः अष्टधा अष्टप्रकारेण परिणतं मायापरिणामरूपमैश्वर्य च अणिमादिकमव्याहतं कचिदप्यप्रतिहतं सिध्येत् ; स एकधा भवति विधा भवति स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति इत्यादिश्रुत्युक्तं सर्व भवेदित्यर्थः ॥ . एवमेषा कृता व्याख्या दक्षिणाशामुखस्तुतेः । यथामति तया तुष्टो दक्षिणामूर्तिरस्तु नः ।। वामेन सीतां परिरभ्य बाहुना वामाङ्कलमां दृशि मुद्रयान्यतः । तत्वं करेणोपदिशन्तमव्ययं हनूमते दाशरथिं हरिं भजे ॥ भास्वगनासनस्थं मणिनिकरलसत्सर्वहैमाशिभूषं हैमाहीन्द्रत्रिसूत्रीविधृतकटिलसत्त्वाचकौसुम्भचेलम् । सान्द्रानन्दं स्वभक्ताभयवरदकरं स्मेरवकं त्रिनेत्रं साम्ब चन्दार्धमालिं स्फटिकमणिनिभं मन्त्रमूर्तिं भजामि ॥ Colophon : ... इति श्रीपरमहंसपरिव्राजकाचार्य श्रीकैवल्यानन्दयोगीन्द्रपदकमलभृङ्गायमाणेन स्वयंप्रकाशयतिना विरचिता दक्षिणामूर्तिस्तोत्रव्याख्या तत्त्व. सुधाख्या समाप्ता ॥ For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy