SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 7120 www.kobatirth.org A DESCRIPTIVE CATALOGUE OF Acharya Shri Kailassagarsuri Gyanmandir तस्य श्रीवेङ्कटार्यस्य चरणौ शरणं वृणे । यदीयसेवा सर्वेषां सूते तच्चार्थनिर्णयम् ॥ नानावृत्त श्लोकभङ्गया प्रवृत्तं श्रीरङ्गेशस्तोत्रमध्यात्मगर्भम् । श्रीमद्भद्वैरादरेण प्रणीतं यावच्छक्ति व्याकरोमि क्रमेण · अथ तावद्भगवता चतुर्मुखेण स्वभवने चिरकालमभ्यर्चितं पश्चादिक्ष्वाकुचक्रवर्तिने तपसा तोषितेन तेन स्वयमभ्यर्चनार्थन्यासरूपेण समर्पितं तदा प्रभृति रघुनायकपर्यन्तमयोध्यायां सरयूतीरे तद्वंशपरम्परया समाराधितं स्वावतारप्रयोजनानन्तरं स्वपदं जिगमिषुणा तेन स्वविश्लेषा सहिष्णवे श्रीविभीषणाय स्वप्रतिनिधितया न्यासरूपेण समर्पितं तस्मिन् स्वपुरं लङ्कामधिगच्छति सति मध्येमार्ग केनापि व्याजेन तत्रत्यसकलजनानुजिघृक्षया कावेरीद्वयमध्ये कृतावतारं ब्रह्मपुराणगारुडपुराणादिषु प्रतिपादितप्रभावं शेषशायिनं पुरुषोत्तमं तद्विभूर्ति श्रीरङ्गक्षेत्रं च तुष्ट्षुः सर्वानुग्रहार्थं भाष्यकारसकाशाल्लब्धं विशेषार्थं च स्तोत्रे तत्र तत्र प्रदर्श - यिष्यन् स्वप्रार्थनां चाविष्कुर्वन् दिव्यप्रबन्धसिद्धमप्यर्थं तत्र तत्र दीपयन् परमतं च निराकरिष्यन् श्रीभट्टारकः सर्वस्यापि श्रेयसो गुरुमूलतया भगवत्स्तुतेरपि तदीयस्तुतेरन्तरङ्गतया च प्रथमं गुरुपरम्परां स्तौति । तत्राचार्यभूतस्वपितरं नमस्यति - श्रीवत्स चिह्नमिश्रेभ्यो यान्ति मङ्गलसूत्रताम् ॥ इति । नमउक्तिं नम इति वचनमधीमहे वेदवदवश्यमावर्तामहे । 'शिवात् परतरं नास्ती 'ति प्रतिजाना (ना) नां प्रतिवादिनां मध्ये ' विष्णुरस्ति ततः परम्' इत्येवंरूपा यदुक्तयः । End : मरुभूमिषु निर्जल प्रदेशेषु पानीयशालं स्थात्; 'विभाषा सेनासु राच्छायाशालानिशानाम्' इति शालाशब्दस्य नपुंसकलिङ्गत्वम् । अतः कर्मज्ञानभक्तिनिष्ठानां रक्षणमरक्षणमात्रमकिंचनस्य मम रक्षणमेव रक्षण मिति सर्वे समञ्जसम् ॥ For Private and Personal Use Only ·
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy