________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
7045
Beginning:
श्रीमद्रामानुजाचार्यासद्धान्ताम्बुजभानवे । कवितार्किकसिंहाय वेदान्तगुरवे नमः ॥ क्षेत्रे कीटेफलप्रदे निरुपमे सत्यव्रताख्ये पुरे काञ्चीनामनि वेङ्कटेश्वरमहाघण्टाख्यसूरिः पुरा । कालातकविमोहितात्मकृतमप्यल्पं बहु स्यामिति स्वामिस्वान्तविदागमान्तगुरुरित्याविर्बभूव स्वभूः ॥ श्रीमान् वेदशिरोगुरुर्भगवतः श्रीवेङ्कटाद्रीशितुघण्टात्मा न परं तदातनजनानानन्दयन्नात्मना । अद्यापि स्वपदाम्बुजैकरसिकानानन्दयन्वैभवं पन्थानं परिपाति भूरिकृपया पर्यायसंलापतः ।।
विश्वामित्रकुलोद्भूतवरदार्येण वर्ण्यते ।
आचार्यरचितन्यासतिलकस्यानिर्णयः ।। - अत्र खलु आचार्यतातपादनिर्मितस्य तिलकस्य तात्पर्य दिङ्मात्रेण श्रोतृजनसंप्रीतये प्रकाशयामि । स चाचार्यवशो ज्ञेयः, आचार्याणामसा वसावित्याभगवत्त इति श्रुतिसिद्धगुरुपरम्परानुसन्धानस्य स्वानुष्ठानमुखेन कर्तव्यतामाह--
गुरुभ्यस्तद्गुरुभ्यश्च . . दंपती जगतां पती ॥ अयमत्र श्रुत्यर्थः----अध्यात्मविद्योपदेशपारम्पर्यमेवाचार्यवंशः, विद्याजन्मानुसारेण गुरुपारम्पर्यविधानात् । न केवलं जन्म । अतएव शठरिपु. नाथलक्ष्मणाचार्यप्रभृतयो हि भिन्नदेशीया अपि गुरुपरम्परायामनुसंघीयन्ते। End:
इन्दिरेशेत्युक्तत्वात् युवयोरिति दिव्यदम्पत्योरुपादानम् ॥ ३०॥ आचार्याद्रङ्गधुर्यद्वयसमधिगमे लब्धसत्वं तदात्वे
स्वपर्यके सेवां दिशति फणिपर्यङ्करसिकः ।।
642-A
For Private and Personal Use Only