________________
Shri Mahavir Jain Aradhana Kendra
6902
www.kobatirth.org
A DESCRIPTIVE CATALOGUE OF
No. 9795. सीतास्तवः ---- सव्याख्यः. SĪTĀSTAVAḤ WITH COMMENTARY.
Acharya Shri Kailassagarsuri Gyanmandir
Pages, 66. Lines, 7 on a page.
Begins on fol. 8a of the MS. described under No. 9794.
Complete.
Same work as the above, with a commentary by the saine author.
Beginning:
श्रियं त्रैलोक्यजननीं सुलभां चानपायिनीम् ।
विष्णोर्ब्रह्मादिसंपत्तेः प्रकृतिं तां नमाम्यहम् ॥ १ ॥
श्रीसीतास्तवमिति स्वचिकीर्षितग्रन्थस्याविघ्नपरिसमाप्तये प्रचयगमनाय च स्वेष्टदेवतां नमस्करोति — श्रियमिति । अत्रादौ श्रीशब्दप्रयोगाद्वर्णगणादिशुद्धेरभ्युच्चयः । तदुक्तम्——
देवतावाचकाः शब्दा ये च भद्रादिवाचकाः । ते सर्वे नैव निन्द्याः स्युर्लिपितो गणतोऽपि वा ॥
इति । त्रैलोक्यजननीं त्रयो लोकास्त्रैलोक्यम् ; चातुर्वण्यादित्वात् स्वार्थे ष्यञ् । तस्य लोकत्रय वर्तमानजङ्गमस्थावरात्मकप्राणिसमूहस्य जननीं मातरम् । लक्ष्म्याः जगन्मातृत्वं जगत्कारणत्वं च श्रुतिस्मृतिपुराणेषु प्रतिपादितम् । तथाच—अस्येशाना जगतो विष्णुपत्लीति श्रुतिः ।
End:
स्पष्टोऽर्थः ॥
नान्यं देवं तु पश्यामि त्वत्तो मद्रक्षणे परम् ।
तस्मात्पुत्रं च मां रक्ष देवि त्वत्पादसेवनम् ।। ३९॥
Colophon:
इत्यात्रेय कुलकलशाम्बुधिसुधाकर गोपालगुरुकटाक्षप्रसाद निवारिताविद्यापटलेन श्रीमहालक्ष्मीप्रसादसमासादितबुद्धिविभवेन रङ्गदासेन विरचिता सीतास्तवव्याख्या समाप्ता ॥
For Private and Personal Use Only