________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
6887
श्रीयुतवीरराघवगुरुर्वितनोति पराम् ।। श्रीमन्महाहरितवंशविशुद्धवृत्त मुक्तामणिस्सकलशास्त्रविदग्रगण्यः । भट्टारको विरचयन् गुणरत्नकोशः स्तोत्रं . . . . . . .
श्रिया इति । हरेः हरति परिहरति स्वासंश्लिष्टान् करोति पाप्मन इति हरिः, अपहतपाप्मा इति श्रुतेः ; अनेन हेयप्रतिभटत्वमुक्तं भवति । End : __ननु मम सर्वविधबन्धुत्वेऽपि मप्राप्त्युपायाननुष्ठाने तव कथं मत्प्राप्तिसिद्धिरित्यत आह--सर्वमिति । त्वमेव नः अस्माकं सर्वमपि धर्ममलौकिक श्रेयस्साधनं कर्मज्ञानभक्तिप्रपत्त्यादिकं भव। स्याद्धर्ममस्त्रियां पुण्यमित्यमरः । सर्वधर्मस्थाने पुरुषकारतया त्वमेव स्थित्वा सिद्धोपायेन भगवता मदिष्टं प्रापयेत्याशयः । त्वयि गुणलेशाभावे कथं मम तथाभाव इत्यत आह स्वीकुर्विति । अकस्मात्कृपां निर्हेतुकदयां स्वीकुरु अङ्गीकुरुष्व । मद्गुणलवानिरीक्षणे कृपानिर्हेतुकता न सिध्येदिति तदनपेक्षमेव मां रक्षेति भावः ॥
वाधूलधुर्यविवुधावलिवर्ण्यचर्यरामानुजार्यकलितामृतकव्यभिख्यः। श्रीवीरराघवगुरुर्विशदीचकार श्रीरङ्गराजरमणीगुणरत्नकोशम् ।।
No. 9764. श्रीगुणरत्नकोशः-सव्याख्यः. ŚRIGUNARATNAKOŚAH WITH COMMENTARY. Pagos, 22. Lines, 8 on a page.
Begins on fol. 84a of the MS. described under No. 5224, wherein this work has been mentioned as Śrīstavavyākhyā in the list of other works given therein.
For Private and Personal Use Only