________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
6865
अमा अश्रीः यया सा रसासितामा, रसायाः भुवः, पञ्चमी, असिता निर. सिता अमा अश्रीः यया सा इति वा अर्थः । या मा श्रीः माभूसदारं मा च श्रीश्च भूश्च भूमिश्च माभुवौ ताभ्यां सदार सस्त्रीकः तं श्रीनिवासम् आम प्राप, ‘ययौ वक्षःस्थलं हरेः' इत्युक्तत्वात् ; 'अमगत्यादिषु' इति हि धातुः । सा त्वं माता असि ; ममेति शेषः । तस्मात् अजररमारजसा भया अजरः परमात्मा तिस्मन् रमन्तीति अजररमाः, तादृशा ये अरजसाः निष्कल्मषाः तेषामभयं मोक्षो यस्याः सा ; पञ्चमी, तादृशी अजररमारजसाभया। भगवद्भजननिरतानां कदाचित्तदनभिमताचरणप्रयुक्ततत्कर्तृकशिक्षाभयप्रशमनीति भावः । तादृशी त्वं मा मामित्यर्थः । अयाः प्रामुहि । अवननमानवमा अवनार्थ संरक्षणार्थ नमन्तीति अवननमाः तैरनवमा अन्यूना ; तद्भूयिष्ठेति भावः । तादृशी त्वं मा अया इति पूर्वेणान्वयः । आमयामाः आमयाः रोगाः; 'रोगव्याधिगदामयाः' इत्यमरः, ते च अमा अलक्ष्मीश्च आमयामाः, ताः । मा निषेधे ; मा याम न प्राप्नुयाम; वयमिति शेषः । मा यामेति बहुवचनात् स्वसंबन्धिनामपि आरोग्यैश्वर्या वाप्तिः प्रार्थिता भवति । इदानीं तहेतुः प्रार्थ्यते ...- तततमा भवेति । तततमा व्याप्ततमा अत्यन्तं व्याप्ता; मामित्यनुषङ्गः । मद्याप्तेः आरोग्यैश्वर्य पापकत्वमित्यत्र भूमशब्दवाच्यं परमात्मानं निदर्शयति --- ततयास भूमेति । अतया व्याप्तया ; त्वयेति शेषः । भूमा भूमशब्दवाच्यः आस प्रकाशत दाप्यते स्म ; ' असगतिदीप्त्यादानेषु' इति धातुः । यद्वा ततया त्वयैव सभूमा मा त्म्ययुक्तो भवतीति शेषः ।।
End:
सभमा माभूमामरमरसदा मारमरसा सितामा मातामारजरजसि यामाजरजसा । भया मामाया मानवनवमवामावनवना मया मा मायामाततततममेऽमातततया ॥ २२ ॥
For Private and Personal Use Only