SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6346 A DESCRIPTIVE CATALOGUE OF विज्ञानं विमलं यस्य भासते विश्वगोचरम् । नमस्तस्मै जिनेन्द्राय सुरेन्द्राभ्यर्चिताचये ॥ एवं जिनगुणस्तोत्रकृतमङ्गलसक्रियः । संग्रहीष्यामि भव्येभ्यो हिताय जिनसंहिताम् ।। शास्त्रावतारसंबन्धः प्रथमं प्रतिपद्यते । श्रेयोऽर्थिनः समाधाय चेतः शृणुत धीधनाः ।। इति स श्रूयते वीरश्चरमस्तीर्थनायकः । विपुलाद्रौ सभां दिव्यामध्युवास कदाचन ॥ तत्रासीनं तमभ्येत्य वन्दित्वा मगधेश्वरः । उपेत्य गणभृज्येष्ठमप्राक्षीजिनसंहिताम् ।। चराचरजगहन्धुस्ततस्तां जिनसंहिताम् । भगवान् गौतमः स्वामी मागधं प्रत्यबूबुधत् ॥ ततः प्रभृत्यविच्छिन्नसर्गपर्वक्रमागता । मयाऽधुना यथोक्तेन संहिता संप्रकाश्यते । मागधप्रश्नमुद्दिश्य गौतमः प्रत्यवोचत । इतीदमनुसंधाय प्रबन्धोऽयं निबध्यते । संगतं हितमेतस्या भव्यानामिति संहिता । जिनसंबन्धिनी सेयं नाम्ना स्याजिनसंहिता ॥ हितार्थिनो ये जिनसंहितामिमां पठन्तु ते श्रद्दधतः सहादरम् । प्रकाशितां विश्वपदार्थदर्शिभिः प्रमाणभूतैर्वृषभैः कवीश्वरैः ।। पूज्यं पूजार्हमहन्तं प्राप्त्यपायादिसंपदम् । प्रणिपत्य प्रवक्ष्यामि पूजासारसमुच्चयम् ॥ For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy