________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
4371
सौभाग्यविषया वाणी सौमत्योदयदायिनी। .. सौगत्याप्तिमहापद्या सौस्थित्यं लभतामसौ ॥
ततः पञ्चदशतिथ्यात्मकळानामधेयोपन्यासेन मुखेन परां व्यापिका सर्वतिथिमयीमक्षयां षोडशीनित्यकळां परामृतस्यन्दिनीं महात्रिपुरसुन्दरीसंज्ञां व्याचष्टे परदेशिको महादेवः ।
लौकिकवैदिकतान्त्रिकेतिहासपुराणदर्शनसारभूतामाणवशाक्तशाम्भवात्ममन्त्रकोटिजननीमकृत्रिमामहम्परामर्शमयीममृतां भगवतीं व्याचष्टे । अथ ग्रन्थो व्याख्यायते---
गणेशेत्यादि । रूपिणीमितिपदं गणेशादिभिः पञ्चभिः पदैस्सम्बध्यते। तदूपिणीमिति । पूर्वार्धेन प्रपञ्चात्मता कथ्यते । उत्तरार्धेन निजमस्यास्वरूपम् । End:
जीवन्नेव विमुक्तोऽसौ यस्येयं भासना सदा ।
यश्शिवं भावयेन्नित्यं न कालः कलयेदिति ।। आम्नातनित्या कदाचित्सम्भावनां प्रत्ययविषयतां भजन्तीति शिवम् ॥ Colophon:
एवम् ऋजुविमर्शिन्या नित्याषोडशिकार्णवे । शिवानन्दपरामृष्टं पञ्चमं पटलं गतम् ॥ एवं प्रकल्पितं मातस्त्वद्भक्त्युद्रेकतो मया । समञ्जसं वेतरथा तत्ते सोढव्यमम्ब हे ॥ प्रसृता भारती ज्योत्स्ना शिवानन्देन्दुमण्डलात् ।
कुदेशिकमहाधर्मसन्तृप्तैस्सेव्यतां चिरम् ॥ इति परमरहस्यं प्राप्तसत्सम्प्रदायं स्फुटविवृतिविलासं प्रोन्मिषच्चक्रराजम् । निपुणमतिनिषेव्यम् . . . . . . . . . . ॥
For Private and Personal Use Only