________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
4370
A DESCRIPTIVE CATALOGUE OF
असमञ्जसतां दृष्टा वृत्तीनामिह तत्त्वतः । व्याकरोति मनाक् श्रीमन्नित्याषोडशिकार्णवम् ॥ सर्वानुग्राहकस्तन्त्रं सर्वोपायावभासकम् । सर्वाधिकारसंसिद्ध्यै बह्ववातारयच्छिवः ॥ श्रीवामकेश्वरं नाम शास्त्रतन्त्रं प्रकाशितम् । शिवेन संविदं देवी लक्षीकृत्य निजात्मिकाम् ॥ मध्ये शास्त्रस्य तस्यास्ति नित्याषोडशिकार्णवः । सूत्रैश्चतुश्शतैर्युक्तः कश्चिद्भागो रसावहः ।। स च पञ्चपटल्यात्मा क्रमपञ्चकभासकः । पूजाप्रयोगो मुद्राश्च विद्याव्याप्तिर्जपस्तुतिः ॥ अवान्तरभिदास्सन्ति कतिचित्तत्र तत्र च । प्रधानशेषगण्यत्वान्न च गण्याः पृथक्पृथक् ॥ अधीत्य चाचार्यमुखाच्छास्त्रं विद्यापुरस्सरम् । गुरूणां न्यवसत् पार्थे शिवानन्दमहामुनिः ।। कालेन महता सोऽयं गुरुभिः करुणोत्तमैः । स्थापितोऽनुग्रहविधौ साभिषेकं सहाभिधम् ॥ ततस्सम्पादयामास शिष्यानाचारभूषितान् । देशकालविशेषज्ञान् भक्तिरत्नमहोदधीन् ॥ पुनश्शिवानन्दमुनिः शिष्यैरभ्यर्थितो भृशम् । सम्यग्वृत्तिविधानाय गभीरागमभाषया ॥ लोपामुद्राक्रमायातं सम्प्रदायादयं पुनः । अकरोदागमस्यास्य व्याख्यामृजुविमर्शिनीम् ॥ ग्रन्थास्सहस्रत्रिशतं विंशतिश्चैव पञ्च च । मधुरोदारसन्दर्भा सेयम् ऋजुविमर्शिनी ॥
For Private and Personal Use Only