________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
3998
A DESCRIPTIVE CATALOGUE OF भवाब्धेस्तरणोपायं तपस्तप्तापि दुष्करम् । किं करिष्याम्यहं तात क वा यास्यामि मे पद ॥ इत्युक्तस्सोऽब्रवीत्तेन कुम्भभूतिर्गतस्पृहम् । क्षणं विचार्य तत्पौर्वापर्येण मुनिपुङ्गव ॥ अस्ति वक्ष्यामि ते सर्व रहस्यं वृषभध्वजः ।
यत्प्रत्यपादयत्पूर्व पार्वत्यै कृपयात्मवित् ॥ अगस्त्यः
कदाचित्पार्वती प्राह भर्तारं भक्तवत्सलम् । कथं मे देव निस्तारो भवाब्धेर्भवभञ्जन ॥ भवद्व्यामोहितास्सर्वे सद्गतिं प्राप्नुवन्ति नो । कामक्रोधादिभिर्दोषैः दृष्टास्तत्र पुनः पुनः । उत्पद्यन्ते प्रलीयन्ते पुनामोहितास्त्वया । रौरवादिषु पच्यन्त पुनस्संसारिणो भुवि ॥ कर्मशेषात्प्रजायन्ते पङ्क(ग्व)न्धबधिरादयः । क्रिमिकीटादयो भूत्वा पुनस्संसारिणो भुवि ।
Colophon:
इति श्रीपाश्चरात्रे परमरहस्ये अगस्त्यसंहितायां प्रथमोऽध्यायः ॥
स्त्रीपुनपुंसकाकाररहितः पुरुषोत्तमः । नरेश्वरस्सर्वरूपस्सर्ववेदमयो हरिः ॥ सर्वज्ञानमयोऽनन्तोऽनादिरानन्द उच्यते । अजस्मरणमात्रेण जन्मादिक्लेशभञ्जनः ।। तस्यात्मबुद्धिस्सर्वेषां पुनरावृत्तिकर्तनी । नियमेनैव वर्णानां खाश्रमोक्तेन स प्रभुः ॥
See under the next number for the end.
For Private and Personal Use Only