SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4236 A DESCRIPTIVE CATALOGUE OF अङ्गासङ्गिभुजङ्गभूषणवरो गङ्गातरङ्गावलीराजद्रम्यकुरङ्गलिङ्गशकलोत्तंसोत्तमाङ्गो भवेत् ।। नीलकण्ठमुखाम्भोधेर्निगमागमवर्त्मना। . निर्गतं शैवराद्धान्तं नीलकण्ठस्तनोत्यसौ ॥ पूर्वाचार्थेरखिलनिगमैरागमैरुक्तमार्गाः क्षुण्णास्तीक्ष्णैः प्रबलमतिभिर्लब्धतत्त्वावबोधैः । सङिप्योक्तैरकृतकवचोगुम्फनैर्जङ्गमानां भूयो भूयादमलमनसां भूयसी भक्तिवृद्धिः ॥ निगमानामागमानां परमाप्तोपदेशतः । प्रामाण्यमविशेषेण ज्ञातव्यं तत्त्वदर्शिभिः ॥ बहुभियुक्तिभिः स्पष्टं विरोधः परिहार्यते । ग्रन्थविस्तरभीत्याहं प्रकृतार्थमुपक्रमे ।। प्रबन्धस्य क्रमस्त्वेवमुपोद्घातादनन्तरम् । द्वात्रिंशदुपदेशास्तु भवन्ति कथिता इमे ॥ उपदेशे प्राथमिके व्याससूत्रानुरोधतः ।। सर्वज्ञे सर्वशक्तौ च निमित्ते जगतस्तथा ॥ उपादाने च वेदान्तवाक्यानां सम्यगन्वयः । सर्ववेदान्तवाक्यानामुपदेशो द्वितीयके ।। End: पञ्चाक्षरोऽयं मन्त्रश्च शान्त्यर्थे विनियुज्यते । तदर्थः प्राप्यते तस्मात्कारिकार्थविचारणात् ॥ कारिकार्थ समध्याप्य यः प्रचारयति स्वयम् । अहं तस्य पदद्वन्द्वं शिरसा धृतवान् पुनः ॥ For Private and Personal Use Only
SR No.020196
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 11
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages430
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy