________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS,
4235
रुद्राक्षस्रगलङ्कतानतितरां शुभैरदभैरशुभैदिव्याङ्गान् भसितैरमन्दहसितैर्मान्यान् परानन्दतः । तान्वन्दे शिवकिङ्करान्छिवळपालब्धाणिमाद्यष्टकान् प्रत्यूहाद्रिविभेदने पटुतरान् दम्भोळिकल्पानहम् ।। वन्दे मल्लयदेवदेशिकवरं तातं शिवाराधनाबद्धोत्साहमनादिवीरविलसच्छैवागमोक्तक्रमैः । प्रातमध्यदिनेऽथ सायमुचितैर्नालं दिवा शर्वरी यत्स्वाभाविकभक्तियोगलहरीविस्तारणायाखिला ॥ तां वन्दे चेन्नमाम्बामहरहरुदितैर्भक्तिभावैरुदारैः पातिव्रत्यं शिवार्चापरिचरणविधौ साधु सम्पादयन्तीम् । मैत्रीमासादयन्ती परशिवपदयोः पश्यतां पावयित्रीं धात्रीशीलानुकर्जी परकृतसहने सादरं मत्सवित्रीम् ।। देवः कैलासनाथः कलितशशिकलश्शर्वरीपश्चिमांशे कारुण्याम्भोनिधिर्माम शि शिषदमलै(लिन)स्सूक्तिवृन्दैरमन्दैः । सर्वेषामागमानां वचनसमुदयैस्सङ्गहीतैः प्रबन्धं कुर्यास्त्वं वत्स बुद्धिः प्रसरति विमला ते क्रियासारनाम्ना ॥ इत्याज्ञप्तस्तु तेन खरसविकसितां बुद्धिमासाद्य सूक्ष्मां भूयस्यै प्रीतये ऽहं जगति सुमनसां सत्क्रियासारमेनम् । कुर्वे सर्वागमानां परशिववचसां सङ्ग्रहं नीलकण्ठः स्मारस्मारं स्मरारेमनुमनुकलयन् स्वप्नलब्धोपदेशम् ॥ लिङ्गाङ्गी मनुजो भवेद्यदि पुनर्नाङ्गी यदैवाङ्गभाक् नारङ्गीपदसङ्गिपाणिकमलोऽनङ्गीकृतानङ्गहक ।
For Private and Personal Use Only