SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3654 A DESCRIPTIVE CATALOGUE OF इह तावदरुणया पिङ्गाक्ष्या एकहायन्या सोमं क्रीणातीत्यत्रारुणापदस्याकृत्यधिकरणन्यायेन गुणमात्रवाचित्वमङ्गीकुर्वन्तो यौगिकैकहायनीपदाद्यवगतगोद्रव्यवदारुण्यमपि क्रयभावनायां करणत्वेनान्वेतीति पूर्वमीमांसका मन्यन्ते । अन्ये तु गुणवाचकतां प्रसाध्यापि तद्विशेषण एव तृतीयाशृ(श्रु)तिबोधितं प्रकृतक्रयभावनाकरणत्वं कल्पयन्ति । भगवद्भाष्यकारास्तु आनन्दमयाधिकरणे समानाधिकरणपदानां विशिष्टैकार्थवृत्तित्वमुपपादयन्तः अरुणापदमपि समभिव्याहतस्वसमानाधि. करणैकहायनीशब्दबोध्यद्रव्यपरमनुमन्यमाना आरुण्यादिविशिष्टद्रव्यमेव क्रयभावनायां करणमनुगृह्णन्ति । तमिमं सैद्धान्तिकं पक्षं व्यवस्थापयितुं प्रकरणमिदमारभ्यते पूर्वमीमांसकास्तावदाहुः--अरुणाशब्दोऽयं गुणमात्रवचनः आकृत्यधिकरणन्यायात् । तथाहि शब्दास्त्रिविधाः--जातिशब्दाः, गुणशब्दाः, क्रियाशब्दाश्चेति । तत्र गौरश्वः पुरुषो हस्ती शकुनिर्मंग इत्यादयो जातिशब्दाः । शुक्लो नीलः कपिलः कपोत इत्यादयो गुणशब्दाः याचकः पाचकः पाठकश्चलाचल: पतापत इत्यादयः क्रियाशब्दाः । End : नचेह तथा निर्देशोऽस्ति । अतो द्वयोस्समुच्चित्य क्रियाकरणत्वकल्पनं न युक्तमित्यरुणाशब्दस्य विशिष्टपरत्वाश्र(य)णेन विशि . . . . . . . . . . श्रित्यैव एकवाक्यत्वसमर्थनेन अस्मदुक्तसिद्धान्तप्रकारएव समीचीन इत्यस्मदुक्तावेव पूर्वोत्तरपक्षौ सूत्रकारानुमताविति भाष्यहृदयविदामभिमतः पन्थाः । यथोक्तन्त . . . . . गुरुणा रुणाधिकरणे ---न ह्येकहायन्य(न्वयायो)गादारुण्यान्वयमाभिधानिक्यमपि त्वापेक्षिकत्व)तः प्रापितम् ; यद्तेऽरुणयेति । केवलगुणं वा द्रव्यनिर्देशवत् वाक्यस्थानागरस्तु कारकवि . . . . . . गताः । For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy