________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
3649
प्रवर्तकेन भगवता हयग्रीवेणैव विरचितत्वं ख्यापयति—पाराशर्य इति ।
अयमत्रान्वयः-अवितथनिगमाचार्यनामा मुनीन्द्रः भगवान् पाराशर्यः प्रभूतादुपनिषदमृताम्भोनिधेस्सारभूतमर्थ यत्तद्वेदान्तसूत्रैर्निर्मथ्यादत्त । एवमस्माभिनिष्कृष्टं भाष्यकारहृदयारूढं तदिदममृतमस्मद्गुरुभिर्वादिहंसा. म्बुवाहैस्सह श्रीमान् हयग्रीव एव तद्वक्ता तत् स्वयमेव वक्ता । वक्तेति तृन्प्रत्ययान्तः । तेनात्र द्वितीयानिर्देशः ॥
आविध्य मतिमन्थानं येन वेदमहार्णवात् ।
जगद्विताय जनितो महाभारतचन्द्रमाः ।। इति श्लोकार्थो भाव्यः ।।
जयति यतिराजवाणी प्रतिभटसिद्धान्तकर्तनकृपाणी ॥ श्रुतियुवतीनां वेणी दिव्यपदारोहभव्यनिश्श्रेणी ॥ आचार्यनिर्मितानामखिलगुरुजनग्रन्थसंवादभाजां पद्यानामुद्यदर्कप्रतिभटमहसामर्थतत्त्वप्रसिद्ध्यै । व्याख्यामाख्याद्विचित्रां वरदगुरुरयं सर्वसिद्धान्तवेदी
वेदान्ताचार्यसूनुर्विमतमतकथावीरसंहारसिंहः ॥ Colophon:
इति निखिलतार्किकचूडामणिना सर्वतन्त्रस्वतन्त्रेण श्रीमद्वरदनाथापरनाम्ना (कुमार)वेदान्ताचार्येण विरचिते शारीरकाधिकरणचिन्तामणौ चतुर्थस्याध्यायस्य चतुर्थः पादः ॥
समाप्तश्च चतुर्थाध्यायः ॥ श्रीमल्लक्ष्मणयोगीन्द्रसिद्धान्तविजयध्वजम् । विश्वामित्रकुलोद्भूतं वरदार्यमहं भजे ॥
For Private and Personal Use Only