________________
Shri Mahavir Jain Aradhana Kendra
End :
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTs.
कार्ये व्युत्पत्तिराद्या नियतमिति गिरस्तत्परा एव सर्वा नान्या वेदे ऽपि नीतिस्तत उपनिषदामूषरप्रायतैव । नातस्तद्वेद्यमीमांसनमुचितमिति प्रत्यवस्थीयमाने सिद्धे व्युत्पत्तिमाद्यां बहुमुखमवयन् ब्रह्म जिज्ञास्यमाह ||
3645
पाराशर्यः प्रभातादुपनिषदमृतोदन्वतस्सारभूतं निर्मथ्यादत्त सूत्रैरवितथनिगमाचार्यनामा मुनीन्द्रः । यत्तन्निष्कृष्टमित्थं यतिपतिहृदयारूढ मारूढतार्क्ष्यः तद्वक्ता वाजिवक्त्रः स(ह) मम गुरुभिर्वादिहंसाम्बुवाहैः ||
Colophon :
इति कवितार्किकसिंहस्य सर्वतन्त्र स्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु अधिकरणसारावल्यां चतुर्थाध्यायस्य चतुर्थः पादः ॥ भाष्यकृतो भाष्यगताधिकरणसारावलिर्मया लिखिता । निगमशिखरार्यकृ(रचि) ता निखिल (1) श्रुत्यन्त लक्ष्मणाख्येन || पठितव्या भागवतैः परितस्सन्तुष्टमानसैस्सुभृशम् । नी (ने) तव्या न च कुत्राप्याश्रितवर्षैरपि प्रियैः कल्यैः ।। आहत्य ग्रन्थसङ्ख्या पश्चशतोत्तरसहस्रम् ॥ (१,५००)॥
For Private and Personal Use Only
No. 4855. अधिकरणसारावलिः. ADHIKARAN ASĀRĀVALIḤ.
Substance, palm-leaf. Size, 15 x 14 inches. Pages, 260. Lines, 5 on a page. Character, Grantha. Condition, slightly injured. Appoarance, now.
Complete.
Same work as the above.
325