________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
THE SANSKRIT MANUSCRIPTS.
Acharya Shri Kailassagarsuri Gyanmandir
Colophon :
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं मायावादखण्डनं समा
सम् ॥
No. 4836. मायावादखण्डनव्याख्या. MAYAVADAKHANDANAVYAKHYA.
3625
Pages, 16. Lines, 7 on a page..
Begins on fol. 566 of the MS. described under No. 4782.
Incomplete.
A commentary on the Mayavadakhaṇḍana of Anandatīrtha; by Jayatirtha.
Beginning:
नरसिंहमसचोरुप्रत्यूहतिमिरापहम् ।
प्रणिपत्य व्याकरिष्ये मायावादस्य खण्डनम् ॥
इह हि विविधसांसारिकदुःखदर्शनेन विरक्तस्य शमदमादिमतो मुमुक्षोरधिकारिणः तन्निवृत्तये परमानन्दावाप्तये च सकलजीवजडात्मकत्वात् प्रपञ्चात् परमार्थत ये (ए) वात्यन्तभिन्नं निखिलगुणोदारं निरस्तसमस्तदोषं परब्रह्म प्रतिपादयितुं सकलश्रुतिस्मृतितदुपकरणभूतब्रझमीमांसायाश्व प्रवृत्तिरिति तत्त्वम् ।
End:
नास्ति नारायणसमं न भूतं न भविष्यति । एतेन सत्यवाक्येन सर्वार्थान् साधयाम्यहम् ॥
इति विष्णोः पुरुषोत्तमत्वमेव सर्वशास्त्रार्थत्वेन भगवता श्रुत्या चाभिहितम् । एवं प्रकरणार्थमुपपाद्य तस्य प्रयोजनमाह ।
इति सर्वज्ञमुनिना मायावादतमोऽखिलम् । निरस्तं तत्त्ववादेन सतां संशयनुत्तये ॥
अन्यथा हि विप्रतिपत्तेः संशयो भवति । प्रकरणार्थमुपसंहरन् तदनुगुणं भगवद्वाक्यं पठति-
For Private and Personal Use Only