SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TAB SANSKRIT MANUSORIPTS. 3801 No. 4813. ब्रह्मसूत्रभाष्यव्याख्या-तत्त्वप्रकाशिका. BRAHMASUTRA BHĀŞYAVYĀKHYA : TATTVAPRAKASIKA. Substance, paper. Size, 10x4g inches. Pages, 419. Linea, 10 on a page. Character, Devanagari. Condition, good. Appearance, new. Adhyāyas 2 to 4. A gloss on the Brahmasūtrabhāgya of Anandatirtba; by Jayatirtha. Beginning: ___पूर्वाध्यायसङ्गतत्वेन एतदध्यायाथै दर्शयति--उक्तेति । अत्राशेषशास्त्रप्रामाण्येन हरिरेव जगजन्मादिकर्तेति योऽर्थः प्रथमाध्याये प्रतिपादितः, तस्य युक्तयादि विरुद्धत्वे)न प्रेक्षावदुपादित्सागोचरत्वं स्यात् । अतस्तस्मिन्नुक्तार्थे युक्तचादिविरोधाभावं दर्श(य)त्यनेनाध्यायेन सूत्रकार इत्यर्थः । एतत्पादप्रतिपाद्यं दर्शयति - प्रथमेति । उक्तेऽर्थेऽविरोधः चतुर्धा स्फुरति - युक्तिसमद्विविधश्रुतिन्यायोपेतश्रुतिविरोधभेदात् । तत्र सर्वविरोधानां युक्तिमूलत्वेन तदविरोधं प्रथमपादे दर्शयतीत्यर्थः । अथाद्याधिकरणार्थ दर्शयाते-प्रथमत इति । यद्यप्ययं पादः प्रागुक्तार्थे युक्तिविरोधं परिहर्तुमेव प्रवृत्तः, तथापि प्रथमाधिकरणे पाशुपतादिस्मृतिविरोधाभावं दर्शयति ; स्मृतीनां युक्तिसमयादिरूपत्वेन तद्विरोधपरिहारस्य समस्ताध्यायार्थभूतस्याप्यत्र सत्त्वेन प्राथम्योपपत्तेः । पदार्थस्याप्यत्र सद्भावेन न कोऽपि दोष इति भावः । अनेनास्य अधिकरणस्य शास्त्रादिसङ्गतिरुक्ता भवति । वेदप्रामाण्येन जगज्जन्मादिकर्तृत्वं विष्णोरुक्तम् । तस्य च पाशुपतादिस्मृतिविरोधे नोक्तजिज्ञासा सम्भवतीति अविरुद्धता नेतव्यम्(व्या) । तद्विष्णोर्जगजन्मादिकर्तृत्वं विषयः । युक्तं न वेति सन्देहः । समयविगानं सन्देहबीजम् । पूर्वपक्षस्य सूत्र एव उक्तत्वात् तदुपन्यस्य पूर्वपक्षांशं तावयाचष्टे-स्मृतीति । न विष्णोर्जगत्कारणत्वं For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy