SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org THE SANSKRIT MANUSCRIPTS. *श्रीशं गुरुं कुमारं च शैवतत्त्वविशारदम् । प्रणम्य नन्दिकेशादीन् शिवभक्तान्मुहुर्मुहुः || काश (रि) कामादिसूत्राणां नन्दिकेशकृतां शुभाम् । लोकोपकारिणीं दिव्यां व्याकरोमि यथामति ॥ इह खलु सकललोकनायकः परमेश्वरः परमशिवः सनकसनन्दनसनत्कुमारादीन् श्रोतॄन् नन्दिकेश्वरपतञ्जलिव्याघ्रपादवसिष्ठादींश्च उद्धर्तुकामो ढक्कानिनादव्याजेन चतुर्दशसूत्र चात्मकं तत्त्वमुपदिदेश । तदनु ते सर्वे मुनीन्द्रवर्याश्चिरकालमाश्रितानामस्माकं चतुर्दशसूत्रात्मकं तत्त्वमुपदिदेशेति मत्वा अस्य सूत्रजालस्य तत्त्वार्थ नन्दिकेश्वरो जानातीति नन्दिकेश्वरं प्रणिपत्य पृष्टवन्तस्तेषु पृष्टवत्सु षड्विंशतिकारिकारूपेण तत्त्वं सूत्राणामुपदेष्टुमिच्छन्निदमाचक्षे (ष्टे) – नृत्तेति । नृत्तावसाने नटराजराजो ननाद ढक्कां नवपञ्चवारम् | उद्धर्तुकामस्सनकादिसिद्धानेतद्विमर्शे शिवसूत्रजालम् || * Acharya Shri Kailassagarsuri Gyanmandir नृत्तेति । अहमिति शेषः । नटराजराज इत्यनेन मङ्गळादीनि दर्शितानि । विश्वरूपविलासवैचित्रचचमत्कारप्रवीणत्वान्नटराजराजः । * 3859 अकारो ब्रह्मरूपस्स्यान्निर्गुणस्सर्ववस्तुषु । चित्कलामिं समाश्रित्य जगद्रूप उरीश्वरः ॥ तत्राद्येन सूत्रेण सर्ववर्णानां समस्तभुवनानां च समुद्भवरूपं खात्मतत्त्वमुपदिष्टमित्याह -- अकार इति । For Private and Personal Use Only अकार इति । [ अन्येन] अः परमेश्वरः निर्गुणः इं मायामाश्रित्य उः व्यापकस्सगुण आसीदिति सूचितः सूत्रार्थः । * श्रीशङ्करमिति पाठान्तरम् ।
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy