SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3848 A DESCRIPTIVE CATALOGUE OF उजिजीविषतां पुंसामुचितोपायनिश्चयः । श्रुतिस्मृतिपुराणादि शोधयित्वा विधीयते । श्रुतार्थमनु(न)नायैव सोऽयं मम समुद्यमः । सोढव्यमत्र स्खलितं सद्भिर्विषयगौरवात् ।। सूत्रसङ्ग्रह एव स्यात्प्रयोक्तृणां मनोमुदे । रत्नैः किमुदयाकीर्णैः परिष्कारार्थिनां फलम् ॥ सूत्रमुक्ताकलापोऽयं सुहृदां हृदयङ्गमः । नादीयेत न तज्ज्ञैश्चेन्नात्र चित्रं न च क्षतिः ॥ प्रकाशयति यत्सोऽयं भगवत्प्रियवैभवम् । वरं हितमिदं हीति प्राज्ञैस्सह्यते तराम् ।। प्रामाण्यमादौ शास्ताना(स्त्राणां)पश्चादात्मनिरूपणे । ततस्संसृतिहेतुश्च ततस्संसरणक्रमः ॥ मनुष्यस्त(त्व)स्य दौर्लभ्यमस्थैर्य कर्मवश्यता । सङ्गस्य शोकहेतुत्वमुभे साध्यत्वमेव च ॥ श्रीशस्य तदुपायत्वं तत्स्वरूपनिरूपणम् । इति प्रकरणान्यत्र ज्ञातव्यानि यथाक्रमम् ।। विस्तरस्सचन्हश्चात्र विद्यते रुचिभेदतः । सर्वेषां सुलभत्वाय सङ्ग्रहस्तत्र लिख्यते ॥ अत्र प्रथमं तावत्प्राप्तुः प्रत्यगात्मनः प्राप्तस्य परमात्मनः प्रापका दीनां च शास्त्रैकसमधिगम्यत्वात् सर्वव्यवहारकारणस्य शास्त्रस्य प्रामाण्यमभिधीयते । आश्वमेधिके धर्म जिज्ञासमानानां प्रमाणं प्रथमं श्रुतिः । द्वितीयं धर्मशास्त्रं च तृतीयं लोकसङ्ग्रहः ॥ For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy