________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THB SANSKRIT MANUSCRIPTS.
3895
Beginning:
मुररिपुचरणसरोजे नत्वा स्तुत्वा च लक्ष्मणमुनीन्द्रम् ।
तनुते समासवादं विशदं कुतुकादनन्तार्यः ।। इह तावदाद्यसूत्रघटकीभूतस्य ब्रह्मजिज्ञासेतिसमासस्य प्रतिपाद्यार्थो विशदीक्रियते
तत्र ब्रह्मजिज्ञासेति समासस्थले ब्रह्मपदस्य ब्रह्मविषयके लक्षणामभ्युपगम्य निर्वाह)पक्ष एकः, लक्षणाया अभावेऽपि लुप्तषष्ठीविभक्तिस्मरणमभ्युपगम्य, विषयविषयिभावस्य संसर्गतया भानमभ्युपेत्य, समासे
शक्तिमभ्युपेत्य वा निर्वाहपक्षास्त्रयः । एतत्पक्षचतुष्टयमपि श्रुतप्रकाशि. कायां स्थितम् । तत्र कस्मिन्पक्षे भाष्यादिखारस्य, कस्मिंश्च पक्षे नेत्य
यमंशो विवेचनीयः । . End:
नन्वेवं ब्रह्मजिज्ञासेत्यादौ सनर्थप्रकारकधात्वर्थविशेष्यकबोधव्यवस्थापनमिच्छाया इष्यमाणप्रधानत्वादिति भाष्यस्य इष्यमाणधात्वर्थप्रधानकत्वात् धात्वर्थविशेष्यकत्वादित्यर्थकथनं च दर्पणकृतां विरुध्यत इति चेत् न; पूर्व सनर्थविशेष्यतापक्षं प्रतिपाद्य तदनन्तरं धात्वर्थविशेष्य. तापक्षस्य प्रतिपादनेन प्रथमकल्प एव तेषां निर्भराङ्गीकारादिति सर्वमवदातम् ।।
शेषार्यवंशरत्नेन यादवाद्रिनिवासिना । अनन्तार्येण रचितो वादार्थोऽयं विजृम्भताम् ।
No. 5060. सामानाधिकरण्यवादः.
SĀMĀNĀDHIKARANYAVĀDA”. Substance, palm-leaf. Size, 151 x 1 inches. Pages, 72. Lines, 8
on a paga. Character, Grantha. Condition, slightly injured.
Appearance, old.
Begins on fol. la. The other work herein is Šāmānādbikaranyavadatippani 360.
For Private and Personal Use Only