SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8588 A DESCRIPTIVE CATALOGUE OF मूकोऽपि वावदूकेन्द्रो जायते यदनुग्रहात् । श्रीसुरेन्द्रगुरोस्तस्य पादं नत्वा चिरं भजे ॥ न्यायाध्वगामिनामध्वदर्शनाद्गतिसिद्धये । तन्वयी(न्यते) विजयीन्द्रेण तन्वी न्यायाध्वदीपिका ।। ग्रन्थप्रन्धिरहो कस्य नेशयेत्सूक्ष्मबुद्धयः । तेषां कृते जयीन्द्रस्य कृतिरेषा प्रवर्तते ।। नित्यं ये पदवाक्यमानसरणीसंशीलनालङ्कताः तेषामेव करोति या प्रतिपदं सन्तोषमाकर्णनात् । या चानेकविधेयषट्पदततेः सम्फुल्लमल्ली सदा सैषा वाग्विजयीन्द्रसंयमिमणेः न्यायाध्वगैः सेव्यताम् ।। यद्यपि शास्त्रदीपिकादिरूपा दीपिका न्यायाध्वगामिनां गतिसिद्धये तदध्वदर्शनसाधनरूपा पूर्वमेव प्रवृत्तास्ति ; तथापि न तया बालाबालसाधारणं गतिसाधनं दर्शनं सिध्यति ; शास्त्रदीपिकादिप्रौढप्रकाशत्वेन बालदृष्ट्यभिभावकत्वात् । End: ___ किन्तु यस्यात्मा शरीरम् । यस्य पृथिवी शरीरम् । जगत्सर्व शरीरन्ते । तानि सर्वाणि तद्वपुः । तत्सर्वं वै हरेस्तनुः । इत्यादिभिः जगच्छरीरशरीरीभावप्रतिपादनात् । देवो मनुष्यो बालो युवा एकश्शरीरीत्यादिवत् विशिष्टैक्यनिबन्धनम् । नेह नानास्ति किञ्चन । मृत्योस्स मृत्युमामोति । य इह नानेव पश्यति । इत्यादिभेदनिषेधस्तु ब्रह्मानधिष्ठितस्वतन्त्रवस्तुभेदनिषेधपरः । ननु च प्रत्यक्षसिद्धं भेदं न प्रतिपादयन्ति वेदान्ताः । अप्राप्त एव शास्त्रस्यार्थवत्त्वात् ; तस्माद. द्वैतमेव वेदान्तवेद्यमिति चेन्न-जीवेश्वरभेदस्य जीवानां परस्परं भेदस्य च प्रत्यक्षाद्य(दि)विषयत्वात् । यदि कस्य चिद्भेदस्य प्रत्यक्षसिद्धत्वमात्रेण प्रत्यक्षाध(दि)विषय. For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy