________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
3808
A DESORIPTIVE CATALOGUE OF
Colophon:
श्रीमद्रामानुजार्यप्रमुखगुरुवरप्राप्तवेदान्तासद्धान् सर्वश्रुत्यन्तपाठ्यानुरुगुणसुल . . . . . सर्वान् । अर्थी(र्था)नाचार्यवर्यश्शुभगुणजलधिस्सर्वविद्वत्प्रबुद्ध्यै व्याकुर्वन् वेदमौलेर्विजयफणितिना(मा)वर्धते श्रीमहार्यः ।।
विजयमङ्गलदीपिका समाप्ता ।।
No. 5022. वेदान्तसारः.
VEDĀNTASĀRAĦ. Substance, palm-leaf. Size, 133 x 14 inches. Pages, 123. Lines, 8
on a page. Character, Telugu. Condition, good. Appearance, not new. Complete
An easy and very brief commentary on the Brahmasūtras : by Rāmánujācarya. Beginning:
समस्तचिदचिवस्तुशरीरायाखिलात्मने ।
श्रीमते निर्मलानन्दोदन्वते विष्णवे नमः ॥ परमपुरुषत्रसादाद्वेदान् सारार्थ उद्भियते
अथातो ब्रह्मजिज्ञासा । अथशब्द आनन्तर्ये वर्तते, अतश्शब्दशिरस्कत्वात् । अतश्शब्दः पूर्ववृत्तस्य हेतुभावे । पूर्ववृत्तं च कर्मज्ञानामति ज्ञायते । आरिप्सितस्य ब्रह्मज्ञानस्य वेदार्थविचारैकदेशत्वादधीतवेदस्य पुरुषस्य कर्मप्रतिपादनोपक्रमत्वाद्वेदानां कर्मविचारः प्रथमं कार्य इत्यथातो धर्मजिज्ञासेत्युक्तम् । कर्मणां च प्रकृतिविकृतिरूपाणां धर्मार्थकामपुरुषार्थसाधनतानिश्चयः प्रभु त्वादाविज्यमित्यन्तसूत्रकलापेन सकर्षणेन कृतः ।
For Private and Personal Use Only