________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
3582
A DESCRIPTIVE CATALOGUE OF
End:
द्रवत द्रवताशु मायिनः प्रविशध्वमतन्द्रिता गुहाः ।
कमलारमणाम्बराश्रयस्समुदेत्यखिलज्ञभास्करः ।। पूर्ववद्विवेचनम् । मायिनश्चोराः मायावादिनश्च । समुदेति; यत इति शेषः ।
नृहरिः सकलज्ञनामकः समुपैति हि मायिदानवान् । प्रपलायनमत्र तत्क्षमं त्वरया वो वसतिगुंहासु च ॥ हिशब्दो हेतौ।
जयत्यानन्दतीर्थेष्टदेवता नरकेसरी ।
विपाटिताज्ञानतमःकवाटात्युरुहुकृतः ॥ जयति उत्कृष्टो वर्तते । अज्ञानं तम इव अज्ञानतमः प्रकाशप्र. तिबन्धकत्वात् तत्कवाटमिव अज्ञानतमःकवाटं परमपुरुषाराधनधामप्रवेश. प्रतिबन्धकत्वात् विपाटितमज्ञानतमःकवाटं येन तत् विपाटिताज्ञानतमःकवाटम् । उरु हुकृतं हुङ्कारो यस्यासौ तथोक्तः । अत्राज्ञानं मायामतमेवाभिमतम् । प्रसङ्गात् ।
जयत्यमितपौरुषः स्वजनतेष्टचिन्तामणिः ।
अशेष(जेश)मुखवन्दितो गुणगणार्णवः श्रीपतिः ॥ जनता जनसमूहः ।
भजितो जयति . . . . रमाबाहुलताश्रयः ॥ श्रीमदानन्दतीर्थार्यमनःकमलमन्दिरः ।
कमलाश्लेषसंसक्तः प्रीयतां नः परः पुमान् ।। Colophon:
इति श्रीमदानन्दतीर्थभगवत्पादविरचिततत्त्वोद्योतटीका जयतीर्थरचिता समाप्ता ॥
श्रीपूर्णप्रज्ञरचिततत्त्वोद्योतस्य पञ्चिका । श्रीमज्जयार्यरचिता लिखिता प्रीतये हरेः ॥
For Private and Personal Use Only