________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
3581
TIN SANSKRIT MANUSCRIPTS. जयत्यमितपौरुषः स्वजनचे(ते)ष्टचिन्तामाणिः । अजेशमुखवन्दितो गुणगणार्णवः श्रीपतिः ॥ सर्वज्ञसन्मुनीन्द्रोच्चसन्मनःपङ्कजालयः ।
अजितो जयति श्रीशो रमाबाहुलताश्रयः ॥ Colophon:
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितः तत्त्वोद्योतः समाप्तः ॥
No. 4792. तत्त्वोद्योतविवरणम्.
TATTVÓDYÓTAVIVARANAM. Pages, 54. Lines, 6 on a page.
Begins on fol. 22a of the MS. described under No. 4783. Complete.
A commentary on the Tattrodyõta of Anandatirtha ; by Jayatirtha. Beginning:
विश्वोत्पत्तिस्थितिध्वंसकारणं रमणं श्रियः ।
अभिवन्ध यथाबोधं तत्त्वोद्योतं विवृण्महे ॥ इहाविद्यातिमिरनिरन्तरे संसारकान्तारे परिखिन्नानामल्पास्थिरसुखखयोतिकासु द्योतमानास्वपि मनःप्रसादमनासादयतामधिकारिणामनन्तानन्दनिदानस्य परमपुरुषतत्त्वोद्भूतस्य सिद्धये समीहमानो भगवान् आ. चार्यसूर्यः स्वयमन्तरायविधुरोऽपि निरन्तरायं प्रारिप्सितपरिसमाप्त्यादेः अङ्गमिष्टदेवताभिपूजनं शिष्यानध्यापयितुं प्रकरणादौ निबनाति--
सर्वत्राखिलसच्छक्तिः स्वतन्त्रोऽशेषदर्शनः ।
नित्यातादृशचिच्चेत्ययन्तेष्टो नो रमापतिः ।। देवतास्तुतिमात्रपरत्वादस्य श्लोकस्य क्रियाभिसम्बन्धाभावो न दोषाय । किन्तु रमापतिः सर्वत्राखिलसच्छक्तिः इत्यादिपदैरेव योजना । यघ(प्य)त्र न विशेषणानां सङ्गत्यपेक्षा, विशेष्यप्रशंसामात्रपरत्वेन निराकाङ्क्षत्वात् ।
331
For Private and Personal Use Only