SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3698 A DESCRIPTIVE CATALOGUE OF (मू). श्रीविष्णुचित्तपदपङ्कजसङ्गमाय चेतो मम स्पृहयते किमतः परेण । नो चेन्ममापि यतिशेखरभारतीनां भावः कथं भवितुमर्हति वाग्विधेयः ।। __ मम चेतः । श्रीविष्णुचित्तस्य विष्णुश्चित्ते यस्य स तथोक्तस्तस्यास्मदाचार्यस्य । भट्टनाथसूरिवत् प्रतिपक्षविजयपुरस्सरं परतत्त्वनिर्धारणादिना तद्दास्येन तदभिजनेन च तन्नामवाहिनः । पदपङ्कजयोस्सङ्गमाय पाणिमूर्धोपसङ्घहरूपसमीचीनसम्बन्धनाय । स्पृहयते अभिलषति । स्पृहेरीप्सित इति चतुर्थी । अत्र सिंहोद्धतं वृत्तम् । अस्मिंश्च ग्रन्थे वृत्तवौचत्र्यमलसपुरुषरञ्जनार्थम् । ममापीत्यपिशब्दोक्तामशक्तिं विवृण्वन् खस्य यतिवरभारतीभाववाग्विधेय तयो]तयोपकारातिशयमाह-- (मू). क पथि विदुषामेषा प्रौढी श्रियः प्रभुणा शपे मशकशकनं मन्ये मादृक्प्रभावनिदर्शनम् । यतिवरवचस्तेज प्रत्यर्थिवर्गनिरर्गळ क्षपणनिपुणं नित्यं जागर्ति (कीर्ति)करं माय ॥ अस्मिन् श्लोके उत्तरश्लोके च हरिणप्लुतं वृत्तम् ॥ (मू). न खलु कवितामानः का नः क्षतिः पथि गौतमे न च परिचयः काणादे वा कुमारिलदर्शने । अपि गुरुमते शास्त्रेवन्येष्वपीह तथापि नः फलति विजयं सर्वत्र श्रीयतीश्वरगीश्श्रमः ।। For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy