________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
3294
A DESCRIPTIVE CATALOGUE OF
मेश्वरमादौ नमस्कृत्य श्रोतृप्रवृत्तिसिद्ध्यर्थ विषयप्रयोजनं दर्शयन् तं ग्रन्थ प्रतिजानीते
प्रणम्य परमात्मानं श्रीविद्यातीर्थरूपिणम् । जैमिनीयन्यायमाला श्लोकैस्संगृह्यते स्फुटम् ।। एको विषयसन्देहपूर्वपक्षावभासकः । श्लोकोऽपरस्तु सिद्धान्तवादी प्रायेण कथ्यते ।। चत्वारोऽवयवा एकश्लोकेनोक्ताः कचित्क्वचित् । यत्र क्वापि बहुश्लोकैरुच्यन्तेऽतो न विस्तरः ।।
*
सर्वथापि सहने द्वे नातिकामति संग्रहः । मीमांसासागरस्तेन क्रीडापुष्करिणी कृतः ।।
संगतिं व्युत्पादयति
शास्त्रेऽध्याये तथा पादे न्यायसंगतयस्त्रिधा । शास्त्रादिविषये ज्ञाते तत्र संगतिरूह्यताम् ॥
शास्त्रस्याध्यायानां चासाधारणं विषयं दर्शयति
धर्मो द्वादशलक्षण्यां(ण्या) व्युत्पाद्यस्तत्र लक्षणैः । प्रमाणभेदशेषत्वप्रयुक्तिक्रमसंज्ञिकाः ।। अधिकारोऽतिदेशश्च सामान्येन विशेषतः ।
ऊहो बाधश्च तन्त्रं च प्रसङ्गश्चोदिताः क्रमात् ।। लक्षणानि अध्यायाः द्वादशानां लक्षणानां समाहारः द्वादशलक्षणी तादृशस्य द्वादशाध्यायोपेतस्य शास्त्रस्य धर्मो विषयः प्रमाणादयः प्रसगान्ता द्वादशपदार्थाः । क्रमावादशानामध्यायानां विषयः
प्रथमेऽध्याये विध्यर्थवादरूपं प्रमाणं निरूपितं, द्वितीये यागदानादीनां कर्म(क्रम)भेदः, तृतीये प्रयाजादेः दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वं,
For Private and Personal Use Only