________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
3298
इन्द्रस्याङ्गिरसो नलस्य सुमतिः शैब्यस्य मेधातिथिः धौम्यो धर्मसुतस्य वैन्यनृपतेः स्वौजा निमर्गौतमः । प्रत्यग्दृष्टिररुन्धतीसहचरो रामस्य पुण्यात्मनो यद्वत्तस्य विभोरभूत्कुलगुरुमन्त्री तथा माधवः ।। स खलु प्राज्ञजीवातुस्सर्वशास्त्रविशारदः । अकरोजैमिनिमते न्यायमालां गरीयसीम् ।। तां प्रशस्य सभामध्ये वीरश्रीबुक्कभूपतिः । कुरु विस्तरमस्यास्त्वमिति माधवमादिशत् ॥ कृपामठ्याहतां लब्ध्वा परार्थ्यप्रतिमोऽभवत् । स भव्याभा(द्भा)रतीतीर्थयतीन्द्रचतुराननात् ।। निर्माय माधवाचार्यो विद्वदानन्ददायिनीम् ।
जैमिनीयन्यायमालां व्याचष्टे बालबुद्धये ॥ न्यायमालाया आदौ स्वकीयग्रन्थत्वद्योतनाय स्खमुद्रारूपमनेकार्थत्व]. गर्भ देवतानमस्कारप्रतिपादकं श्लोकं पठति-वागीशाद्या इति । इष्टदेवतां नमस्कृत्य चिकीर्षितार्थ(परिपालनाय)प्रतिपाद(पाल)के खामिनि विद्यमान(महिमान)मनुस्मारयति-युक्तिं मानवतीमिति । . . . . . . . राज्ञः . सर्वज्ञत्वं सोपपत्तिकं प्रकटयति-यद्ब्रह्मेति । . . . . . . . . . . उक्तगुणोपेतस्य राज्ञो मन्त्रिणं नानानिपुणदृष्टान्तैर्हितकारितया प्रशंसतिइन्द्रस्यात । . . . . . चिकीर्षितग्रन्थे श्रद्धातिशयमुत्पादयितुं कर्तृगौरवं प्रकटयति
श्रुतिस्मृतिसदाचारपालको माधवो बुधः ।
स्मार्त व्याख्याय सर्वार्थ द्विजाथै श्रौतमुद्यतः ।। सर्ववर्णाश्रमानुग्रहाय पुराणसारपराशरस्मृतिव्याख्यानादिना स्मार्तो धर्मः । इदानीं द्विजानां विशेषानुग्रहाय श्रौतधर्मे व्याख्यानाय प्रवृत्तो ग्रन्थमारिप्सुर्गुरुमूर्युपाधिकं सकलवेदशास्त्रप्रवर्तकत्वेनोचितेष्टदेवतारूपं पर
303
For Private and Personal Use Only