________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
3252
A DESCRIPTIVE CATALOGUE OF
End:
समस्तनष्टसङ्कल्पस्समाधिस्सोऽभिधीयते ॥ इन्द्रियेषु मनोवृत्तिरपरं(र) प्रेक्षणा हि सा। अद्वयत्वं गते जीवे ग(न)मनो नेन्द्रियाणि च ।। न गन्धं न रसं रूपं संस्पर्श न च निश्चलम् । नात्मानं न परं वेत्ति यो हि युक्तस्समाधिना । अभेद्यस्सर्वशस्त्राणामवध्यस्सर्वदेहिनाम् । अग्राह्यो मन्त्रयन्त्राणां योगी युक्तस्समाधिना ॥ युक्ताहारविहारश्च युक्तचेष्टः स्वकर्मसु । युक्तस्स्वप्नावबोधेन योगी तत्त्वं न विन्दति ।। निराकारं निरालम्ब निष्प्रपञ्चं निरामयम् । निरालयं निराहारं तत्त्वं तत्त्वविदो विदुः ।। निचलं निर्मलं नित्यं निष्क्रियं निरुपद्रवम् । व्योम विज्ञानमानन्दं ब्रह्म ब्रह्मावदो विदुः ।। निरातङ्के निरालम्बे निराकाशे निरामये । योगी योगविधानेन परे ब्रह्माण लीयते ।। दुग्धं क्षीरे घृतं(ते) सर्पिः वह्नौ वह्नीति(हिरि)व श्रुति(त): । तन्मयत्वं व्रजेदेवं योगी लीनः परे(रा)वरे ।। भवभयहरवहिं मुक्तिसोपानमार्ग प्रकटितपरमार्थ ग्रन्थगुह्य त्वगुह्यम् । सकृदपि पठतीमं यश्शृणोति प्रबोधं
स भवति भुवि भव्यं भाजनं मु(भु)क्तिमुक्तौ ।। Colophon:
इति सद्गुणाचार्येण श्रीदत्तात्रेयमहायोगिना विरचितं योगशास्त्रं समातम् ॥
For Private and Personal Use Only