SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3251 सुगन्धिताकुसुमितासाधुसत्फलसंयुतैः । शाखिभिश्शोभितं पुण्यं जलकासारमण्डितम् ।। स मुनिस्तत्र विचरन् ददर्शाग्रतरोरधः । पद्मासनसमासीनं दत्तात्रेयं महामुनिम् ।। दृढपद्मासनेनापि नासाग्रार्पितया दृशा । ऊरुमध्ये(ध्य)गतोत्तानपाणियुग्मेन शोभितम् ।। तत प्रणम्य तमृर्षि दत्तात्रेयं स साङ्कतिः । तच्छिप्यैस्सह तत्रैव सम्मुखं चोपविष्टवान् ।। तदैव स मुनिर्योगाद्विरमय्य पुरः स्थितम् । उवाच साङ्कतिं प्रीतिपूर्वकं स्वागतं वचः ।। साङ्कते किमिति त्वं मां किमुद्दिश्य इ(त्वि)हागतः । इति पृष्टस्स च प्राह योगं ज्ञातुमिहागतः ।। श्रीदत्तात्रेयः योगो हि बहुधा ब्रह्मन् तत्सर्व कथयामि ते । मन्त्रयोगो लयश्चैव हठयोगस्तृतीयकः ।। राजयोगश्चतुर्थः स्याद्योगानामुत्तमः स्मृतः । आरम्भश्च घटश्चैव तथा परिचयः स्मृतः ।। निष्पत्तिश्चेत्यवस्थाच(च) चतस्रः परिकीर्तिताः । एषां तु विस्तरं वक्ष्ये यदि त्वं श्रोतुमिच्छसि ।। अङ्गेषु मातृकान्यासपूर्व मन्त्र जपेत्सुधीः । एकेन चापि सिद्धिः स्यान्मन्त्रयोगस्स उच्यते ।। अम्बुसैन्धवयोरैक्यं यथा भवति योगतः । तथात्ममनसोरक्यं समाधिस्सो भिधीयते ।। यत्समत्वं योरेव जीवात्मपरमात्मनोः । For Private and Personal Use Only
SR No.020194
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 09
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1910
Total Pages377
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy