________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
3512
A DESCRIPTIVE CATALOGUE OF
भष्टोत्तरशतसङ्ख्याका उपदिष्टाः । तथा च मुक्तिकोपनिषनि(न्नि)ष्ठाष्टोतरशतोपनिषन्नामश्लोका लिख्यन्ते ॥
" ईशकेनकठप्रश्नमुण्डमाण्डूक्यतित्तिरिः। ऐतरेयं चच्छान्दोग्यं बृहदारण्यकं तथा ।। ब्रह्मकैवल्यजाबालश्वेताश्वो हंस आरुणिः । गर्भो नारायणो हंसो बिन्दुनादशिरश्शिखा ।। मैत्रायणी कौषितकी बृहज्जाबालतापनी । कालाग्निरुद्रमैत्रेयी सुबालक्षुरिमत्रिका ॥ सर्वसारं निरालम्बं रहस्यं वज्रसूचिकम् । तेजोनादध्यानविद्यायोगतत्त्वात्मबोधकम् ।। परिबाट त्रिशिखी सीता चूडा निर्वाणमण्डलम् । दक्षिणा शरभं स्कन्दं महानारायणाद्वयम् ॥ रहस्यं रामतपनं वासुदेवं च मुद्गलम् । शाण्डिल्यं पैङ्गलं भिक्षं महच्छारीरकं शिखा ।। तुरीयातीतसन्न्यासपरिव्राजाक्षमालिका । अव्यक्तैकाक्षरं पूर्णा सूर्याक्ष्यध्यात्मकुण्डिका ।। सावित्र्यात्मा पाशुपतं परं ब्रह्मावधूतकम् । त्रिपुरातपनं देवी त्रिपुरा कठभावना ।। हृदयं कुण्डली भस्म रुद्राक्षगणदर्शनम् । तारसारमहावाक्यपञ्चब्रह्माग्निहोत्रकम् ।। गोपालतपनं कृष्णं याज्ञवल्क्यं वराहकम् । शाट्यायनी हयग्रीवं दत्तात्रेयं च गारुडम् ।।
कलिजाबालिसौभाग्यरहस्यऋचमुक्तिका ।" इति तत्र दशोपनिषद ऋग्वेदगताः । शुक्लकृष्णभेदेन यजुष एकपञ्चाशत् । तत्र शुक्लयजुष एकोनविंशतिः । कृष्णयजुषो द्वात्रिंशत् ।
For Private and Personal Use Only