________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
3511
इतीत्येतादृशस्स गुरुरिति मम मनीषेत्यन्वयः । उक्तार्थे आदर्तव्यतां दर्शयितुमाह -नूनमिति । इयता प्रबन्धेन यत्प्रतिपादितं तत्सर्वं निश्चितमे वेत्यर्थः । यन्निष्क्रियं निरंशं सूक्ष्ममलक्ष्यश्च सच्चिदानन्दम्.
No. 4708. महावाक्यरत्नावलिः.
MAHĀVĀKYARATNĀVALIH. Snbatanco, paper. Size, 87 x 53 inches. Pages, 51. Lines, 14
on a page. Character, Teluga. Condition, good. Appearance, new. Complete.
A collection of 1008 important passages selected from the Upanişads mainly in support of the Advaita view of the Vēdānta ; by Ramacandrēndra, a disciple of Väsudēvēndrasarasvatī.
Beginning:
यो विध्यादिविदेहान्तमहावाक्याविग्रहः । श्रीरामचन्द्ररूपाय तस्मै भूमात्मने नमः ।। यः पूज्यो यतिभिः स्वधर्मनिरतायन्ति यं योगिनो येनात्तं निगमान्तवेद्यमनिशं यस्मै हविर्दीयते । यस्मात् स्थावरजङ्गमं समभवद्यस्यांशमात्रो वरो यस्मिन् लीनमिदं प्रणौमि सततं तं वासुदेवं गुरुम् ॥ नत्वा श्रीवासुदेवेन्द्रपादपङ्केरुहद्वयम् । प्रथ्यते वै महावाक्यरत्नावळिरियं मया ।। अथ खल्वृग्वेदादिविभागेन वेदाश्चत्वारः; सत्रैकविंशतिशाखा ऋचः, नवाधिकशतशाखा यजुषः, सहस्रशाखास्साम्नः, पञ्चाशच्छाखा अथर्वणस्य, एकैकस्याश्शाखाया एकैकोपनिषत् , आहत्याशीतिसहितशताधिकसहस्रसङ्ख्याका उपनिषदः । तासु श्रीरामचन्द्रेण रामदूताय सारतरोपनिषदः
For Private and Personal Use Only