________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
THE SANSKRIT MANUSCRIPTS.
3399
प्रहृष्टहृदयास्तस्याल्पश्रवणेनैव बहुवारं समस्तशास्त्रश्रवणादिपरिश्रम - फलाज्ञाननिवृत्त्यानन्दावाप्तिप्रयोजननिमित्तागमिकनिस्सन्दिग्धापरोक्षात्मवि
-
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानसिद्धये सकलशास्त्र रहस्य सारस्नेहवर्धितमर्थतोऽप्यानन्ददीपाख्यं वेदोत्तमाङ्गप्रकरणं शारीरकमीमांसाच्छायानुसारेणारभमाणा अलौकिक शिष्टाचारमूलमूलागममूलकप्रारिप्सितग्रन्थाप्रत्यूहपरिसमाप्तिप्रचय (गम) नसिद्धिफलकविशिष्टप्रकरणप्रतिपाद्येष्टदेवतानमस्कारमङ्गळमाचरन्तो मुमुक्षुप्रवृत्यङ्गविषयप्रयोजनाद्यनुबन्धचतुष्टयमेतन्मूलशारीरकसिद्धमर्थात् दर्शयन्ति यं वेदा इति । विष्णवे नम इति योजना । स विष्णुर्नमस्कर्तुरात्मा अतिरिक्तो वा ? नाद्यः कर्तृकर्मविरोधात् ।
End:
इयता प्रतिबन्धेन प्रतिपादितस्यार्थस्य प्रचयादिसिद्धये अध्यायान्ते ऽपि परमात्मानं प्रत्यगभिन्नत्वेन प्रणमन्नर्थादुक्तवक्ष्यमाणाध्यायद्वयार्थ स ङ्ग दर्शयन्त्येकेन श्लोकेन यस्मादेतदिति ।
उक्तविशेषणयुक्ताः परमहंसा ( : ) स्थावरजङ्गमात्मकप्रपञ्च मात्राधिष्ठि(ष्ठा) तारं यं स्वात्मत्वेन जानन्ति, यत्स्वरूपं युक्तिकुशला अपि वैशेषिकादयो न मन्वते तस्मै सर्वान्तर्यामिणे नम इत्यर्थः ॥
यद्भासा निगमार्थनिन्दनपरध्वान्ता विनष्टां भृशं यत्रापुर्निगमान्ततत्परयतिप्रद्वेषपापावृताः । मूढा ज्ञानलवोद्धताश्शलभतामानन्ददीपाभिधे पद्मषण्डवये शश्वन्नमश्शम्भवे ॥
Colophon :
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमच्छिवानन्दयतिपूज्यपादशिष्यश्रीमद्रामनाथविदुषा विरचितायामानन्ददीपटीकायां विशुद्धदृष्टिसमाख्यायां द्वितीयोऽध्यायः ॥
For Private and Personal Use Only