________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
3398
A DESCRIPTIVE CATALOGUE OY
Beginning:
ध्यायन्तो . . . यन्तोऽप्यखिलसुरगुरोरप्यलभ्यं लभन्ते तुल्यं यं वेदवाचश्चकितमभिदधत्यद्वितीयेन भक्त्या । यच्छक्तिर्विश्वविश्वं सृजति मुहुरवत्यत्त्यखण्डामलं तं
सत्यानन्दप्रकाशं सकलविरहितं शङ्करं विष्णुमीळे ॥ स्वाज्ञानसम्भवभवप्रभवप्रसूतसर्वप्रवृत्तिविलयो मम यत्प्रसादात् ।
तस्मै नमस्सकलभक्तविबोधनाय मुद्रां करेण वहते परमेश्वराय ।। हेरम्बषण्मुखदिवाकरविष्णुरुद्रब्रह्मादिनामशतरत्नसुभूषिताङ्गी । ब्रह्माण्डपतिशतभारनिबन्ध(ख)कण्ठी वाग्देवता परचितिर्मम सन्निधत्ताम् ॥
नत्वा शिवानन्दयतीशमाद्यमानन्ददीपो यत आविरासीत् । विशुद्धदृष्टिं करवाणि हृष्यन् रामाभिधान(:) स्फुटमस्य टीकाम् ।।
अथ किल परम कृपालवोऽस्मच्छीगुरुचरणा आदरनैरन्तर्यानेककालासेवितशास्त्रोक्तलक्षणलक्षितश्रीगुरुचरणचरणपद्मपरिचर्यापरिश्रमपरिप्राप्ता - शेषशास्त्ररहस्यश्रवणमनननिदिध्यासनसमाध्यनुष्ठानप्राप्तनित्याद्वितीयनिरति - शयपरमानन्दनित्यध्वस्तसमस्तसपरिकराज्ञानदेहत्रयावस्थात्रयादिसमस्तोपा - धिविनिर्मुक्तस्वात्माभिन्नपरब्रह्मविषयासन्दिग्धापरोक्षविज्ञानोन्मूलितस्वात्माज्ञानाशेषतत्कार्यनिवहप्राप्तसमस्तकामा अप्येतादृशस्वात्मतत्त्वानवबोधविजृम्भितस्थूलसूक्ष्मदेहहयानादितादात्म्याभिमानप्रस्तुतकर्तृत्वभोक्तृत्वप्रमातृत्वजातिवर्णाश्रमवयोऽवस्थाद्यनेकानर्थव्राताध्यासप्रभवानन्दभवाजितपुण्यापुण्यमिश्रितानन्दकर्मप्रभवदेवतिर्यक्स्थावरमनुष्याद्यनेकगर्भवासाद्यपर्यन्तदुष्परिहरदु . स्सहदु: खोर्मिमालासहस्र.
For Private and Personal Use Only