SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 3362 www.kobatirth.org A DESCRIPTIVE CATALOGUE OF Acharya Shri Kailassagarsuri Gyanmandir यस्य श्रीकरुणाकटाक्षविभवप्राप्तात्मविद्या (द्यो ऽ ) स्म्यहं तं वन्दे मुनिवन्दनीयचरणं श्रीदक्षिणास्यं गुरुम् || यद्वकाम्बुजनिस्सृतं परमकं श्रीसूत्रभाष्यामृतं पीत्वा मादृशजीवभङ्गनिचया नन्दन्ति मोक्षाङ्गणे । नानावादिमदेभभञ्जनमहाव्यग्रोग्रकण्ठीरवान् वन्दे व्यासमुनीन्द्रशक्रमुखान् सद्देशिकांस्तानहम् ॥ अद्वितीयापरिच्छिन्नसच्चिदानन्दमूर्तये । दक्षिणामूर्तिरूपाय मह्यमेव नमो नमः || श्रीदक्षिणामूर्तिकटाक्षवीक्षणप्रध्वस्ततत्त्वावरणेन धीमता । अज्ञानविध्वान्तसुचण्डभास्करः प्रकाश्यते मोहतमोनिवृत्तये ॥ करालमायाभिधरात्रिशायिभिः कर्मातिदुश्शीतविकम्पितात्मभिः । अज्ञानविध्वान्तसुचण्डभास्करो मयोदितो विप्रवरैर्विलोक्यताम् ॥ इह जन्मनि जन्मानि (न्त ) रे वा सम्यगनुष्ठितवेदोक्तनिष्कामकर्मोपासनाराधिताराध्यपादश्रीदक्षिणामूर्तीश्वरपरमानुग्रहपरिशुद्धहृदया दुश्चरि तनित्यनिवृत्ता जीवन्मुक्तान् पुरुषधौरेयान् ब्राह्मणानवलोक्य अज्ञानदुःखनिवृत्तिपूर्वकानन्दाविर्भावरूपं मोक्षं कामयमाना ब्राह्मणाः संसारदुःखसमुद्रं समुतीर्य मोक्षानन्दरूपं परं पारमासाद्य सुखिनो भवन्त्विति मनीषया स्वानुभवावष्टम्भेनाज्ञानध्वान्तचण्डभास्करसंज्ञं वेदान्तप्रकरणमारभमाणाः प्रथममनुबन्धचतुष्टयं विचारयामः— तत्र तावत् बन्धनिवृत्तेरेव मुक्तिपदार्थत्वात् निवृत्तेश्च प्राप्तिपूर्वकत्वात् आदावात्मनो बन्धप्राप्तिर्विचार्यते ॥ End: सम्यग्विचारयसि चेदेतद्विचारपरिपाकपरिप्राप्तसम्यक् प्रज्ञानौकासमारूढः तमः कूर्म रजोमीनं क्रोधनकं कामशैवालं जन्ममरणतरङ्गं राग बुद्बुदं लोभफेनं मोहवेलं दु:खागाधजलप्रवाहगम्भीरमिमं मूलाज्ञानसंसारापार महादुःखसमुद्रं समुत्तीर्य मोक्षसाम्राज्यानन्दरूपपरं पारमवाप्स्यसि । For Private and Personal Use Only
SR No.020194
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 09
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1910
Total Pages377
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy