________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I'HE SANSKRIT MANUSCRIPTS.
3009
__No. 4001. तत्त्वचिन्तामणिव्याख्या--दपणः. TATTVACINTA MANIVYAKHYA : DARPA NAH. Substance, palm-leaf. Size, 158 x 14 inches. Pages, 90, Lines, 10
on a page. Character, Grantha. Condition, good. Appearance, old.
This commentary is also known as Manidar paņa, and is by Rājacūdāmaņimakbin.
Incomplete. Beginning:
वामालकावल्लभभावमुद्रासीमाविभागेन्द्रमणीशिलेव ।
रोमावली राजति यस्य मध्ये सोमावतंसस्स सुखाय भूयात् ॥ यत्पादरेणुपरमाणुभिरेव सृष्टां पश्यन्निजप्रणयिनी किल पश्यदतिः । आस्थापयन्निखिलकारणतामणूनां भद्रं स मे दिशतु भानुकुलावतंसः ।।
अधीत्य निखिलं शास्त्रमग्रजादीश्वरेष्टिनः ।
राजचूडामणिमखी कुरुते मणिदर्पणम् ॥ ननु मङ्गलमिदमफलम् ; समाप्तीतराफलकत्वे सति समाप्त्यफलकत्वात् जलताडनवत् । नचापि (वि)गीतशिष्टाचारविषयत्वेन हेतुना सफलत्वे सिद्धे विश्वजिन्न्यायेन खर्गः फलं कल्प्यमिति विशेषणासिद्धो हेतुरिति वाच्यम् ; तथासति स्वर्गकामनाजन्यकृतिविषयत्वापत्त्या समाप्तिकामनाजन्यभ्रमरहिताचारविषयत्वापत्तेः । तस्मात् न स्वर्गः फलं कल्प्यतामिति न विशेषणासिद्धिः । End: ___ तच्च प्रत्यक्षं द्विविधम्--निर्विकल्पकं सविकल्पकं चेति । तत्र सप्रकारकं ज्ञानं सविकल्पकम् ; निष्प्रकारकं तु निर्विकल्पकम् । तत्र विप्रतिपत्तिः - ज्ञानत्वं सविकल्पकत्वव्याप्यं ने(न वे)ति । . . . स्मरणरूपविशेषणज्ञानं न सम्भवति ; ___ जातिविशेषस्य पूर्वमनुभवादित्यर्थात्तत्र निर्विकल्पकसिद्धिरिति वाच्यम् ॥
For Private and Personal Use Only