________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
3008
A DESCRIPTIVE CATALOGUE OR
No. 4000. तत्त्वचिन्तामणिव्याख्या-तत्त्वदीपिका. TATTVACINTAMANIVYAKHYA : TATTVADIPIKA. Substance, palm-leaf. Size, 181 x 1 inches. Pages, 236. Lines, 9
on a page. Character, Telugu. Condition, injured. Appear. ance, new. Contains the Pañcalakṣani and Caturdaśalakṣaṇi. Two copies.
This seems to be a different commentary from the above by the same author. Beginning:
भोक्तं नवनवनीतं विनीतमिव यान्तमङ्कमम्बायाः । वेदाविदितगुणान्तं नन्दसुतं तं नमस्यामः ।। अयत्नतः पण्डितमण्डलीनां गूढार्थतत्त्वप्रतिपत्तिहेतोः ।
संक्षेपतः श्रीरघुदेवशर्मा नवीननिर्माणमिदं तनोति ।। प्रत्यक्षप्रमाणोपजीवकत्वात्प्रत्यक्षानन्तरमनुमानं निरूप्यते, प्रत्यक्षप्रमित्युपजीवकत्वात्प्रत्यक्षप्रमित्यनन्तरमनुमितिनिरूप्यते । नन्वसङ्गतं न प्रयुञ्जीतेति वाक्यादनन्तरनिरूपणे सङ्गतिरपेक्षिता किं तत्प्रदर्शनेन ? किं वा निरूपणीयनिरूपणप्रतिज्ञया इति चेन्न ।
End:
___ एवं वह्नित्वादेः सम्बन्धत्वे तेन सम्बन्धेन वयादेस्साध्यतायां तत्तदूपादिहेतावव्याप्तेः; तत्र तेन सम्बन्धेन प्रतियोग्यनधिकरणं यद्धेत्वधिकरणं तद्वृत्त्यभावस्याप्रसिद्धेरिति चेन्मैवम्
साध्यतावच्छेदकसम्बन्धेन यत्स्वावच्छेदकावच्छिन्नाधिकरणं, तदनुयोगित्वस्य निरूपकीभूता(तत्वा) भावनिरूपितत्वोभयसम्बन्धेन प्रतियोगिताविशिष्टा.
For Private and Personal Use Only