________________
Shri Mahavir Jain Aradhana Kendra
2948
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
A DESCRIPTIVE CATALOGUE OF
जातिखभावगुणदेशजधर्मचेष्टाभावेङ्गितेषु विकला रतितन्त्रमूढाः । लब्ध्वा बहिः रखलति चौवनमङ्गनानां किन्नारिकेलफलमाप्य कपिः करोति ।।
End:
यद्वात्स्यायनसूत्रसङ्ग्रहबहिर्भूतं किमप्यागमैः
दृष्टि (ष्टे वा) च्यमिदं मया मुनिगिरां श्रद्धा हि साधारणी ।
भावव्यञ्जितमन्यभङ्गिकथितं तत्रैव चेदस्ति यन्मन्दानामुपयुज्यते तदपि च स्वप्नाभिधेयीकृता ॥
अत्र प्रथमं नन्दिकेश्वरगोणिकापुत्रयोर्मतमासाद्य तयोस्सङ्घ हि ( ही ) प्यामः परतो वात्स्यायनीयम् ।
पद्मिनीं तदनु चित्रिणीं ततः शङ्खिनीं तदनु हस्तिनीं विदुः । उत्तमा प्रथमभाषिता ततो योषितो युवतिरुत्तरोत्तरा ॥
कमलमुकुलमृद्धी फुल्लराजीवगन्धिः सुरतपयसि यस्यास्सौरभं दिव्यमङ्गे । चकितमृगदृशाभे प्रान्तरक्ते च नेत्रे स्तनयुगलमन ( ) श्रीफलश्रीविडम्बि ।।
काकोलूक (कीयेन तु) लोम्ना होमश्च पुरुषयोस्तद्वत् । अनयोरसृजा होमो नाम विलिख्यैव निम्बदः || मूषकमार्जारद्विजदिगम्बराणां च रोमभिर्धूपः । क्रियते वेश्मनि यस्मिन् तत्रत्यानां मिथो वैरम् ||
सुरतरुतगरवचागुरुगदघृतलयगन्धरसधूपः । वेश्मनि निहितस्तेषां परस्परप्रीतिमातनुते ||
उद्भूतः पारिभद्रादमरनरफणी (णि) प्रेयसीगीतकीर्तिः नप्ता तेजोदनाम्नः सदसि बहुमतः पण्डितानां कवीनाम् । एतच्छ्रीगद्यविद्याधरकलितनयः कामुकाली रहस्यं कोक्कोकः कामु (का)नां किमपि सुखकरं व्याकरोत्कौतुकेन ||
For Private and Personal Use Only