________________
Shri Mahavir Jain Aradhana Kendra
Beginning:
www.kobatirth.org
THE SANSKRIT MANUSCRIPTS.
Acharya Shri Kailassagarsuri Gyanmandir
नाकार प्रसभमचिरादर्धनारीश्वरत्वं दग्धेनापि त्रिपुरजयिनो ज्योतिषा चाक्षुषेण । इन्दोर्मित्रं स जयति मुदां धाम वामप्रचारो देवः श्रीमान् भवरसभुजां दैवतं चित्तजन्मा || परिजनपदे भृङ्गश्रेणी पिकाः पटुवन्दिनो हिमकरसितच्छत्रं मत्तद्विजो मलयानिलः । कृशतनुधनुर्वली (ल्ली) लीलाकटाक्षशरावली मनसिजमहाधीरस्योच्चैर्जयन्ति जगज्जितः ||
कोको कनाम्ना कृतिना कृतोऽयं श्रीवैन्यदत्तस्य कुतूहलेन । विलोक्यतां कामकलासु धीराः प्रदीपकल्पो वचसां निशुम्भः || भूयो भूयो मुनिवरगवीरर्थदुग्धानि दुग्ध्वा निर्मत्या(थ्या)तिप्रणिहितधियो योऽयमादाय सारः ।
2947
स्वादुः पथ्यो ललितरमणीयौवनाभोगभोग्यो
मुख्यो देवैरपि बहि (हु) मतः सेन (व्य) तां वन्दि (पण्डितेन्द्राः || असाध्यायास्सुसन्धिश्व सिद्धायाश्चानुरञ्जनम् ।
रमण्याश्च रतिस्सम्यक्कामशास्त्रप्रयोजनम् ।।
संसारो (रे) पटलान्ततोयतरले सारं यदेवं परं यस्यायञ्च समग्र एव विषयग्रामप्रपञ्चो मतः । तत्सौक्यं (ख्यं) परतश्च (त्त्व) वेदनमहानन्दोपमं मन्दधीः को वा विन्दति सूक्ष्ममन्मथकलावैचित्र्यमूढो जनः ॥
For Private and Personal Use Only