________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
THE SANSKRIT MANUSCRIPTS.
Beginning :
Acharya Shri Kailassagarsuri Gyanmandir
Colophon:
इति गदाधरभट्टाचार्यविरचितो ज्ञप्तिप्रामाण्यवादः समाप्तः || श्रीदेशिकानुग्रहतो विपचिङ्गयन्वयो देशिकनामधेयः । प्रामाण्यचिन्तामणिदीधितीयां गादाधरीं साधु लिलेख टीकाम् ॥
No 4041. तत्त्वचिन्तामणिदीधिति प्रकाशिका.
TATTVACINTAMANIDIDHITI PRAKĀŠIKĀ.
Substance, paper. Size, 13 x 3 inches. Pages, 152. Lines, 17 on a page. Character, Telugu. Condition, good. Appearance,
new.
Up to Sāmānyābhāva,
Same work as the above.
3033
अभिवन्द्य मुहुः समादरात्पदपाथोजयुगं पुरद्विषः । विवृणोति गदाधरस्सुधीरतिदुर्बोधगिरः शिरोमणेः ||
For Private and Personal Use Only
14
प्रारिप्सितसमाप्तिपरिपन्थिप्रत्यूहव्यूहविध्वंसनपटीयसीं परमेश्वरप्रणतिमादौ निबध्नाति - ओमिति । समस्तैरकारोकारमकारैः सन्धिवशेन प्रणवभावमावहद्भिः अव्ययतया लुप्तचतुर्थीकैः प्रत्येकशक्तयोपस्थापितस्य वासुदेवादित्रयस्य अभेदेन परमात्मनो विशेषणत्वमत्राभिमतम् । अत्र च जगत्पालनादिकर्तृत्वं नाकारादिपदार्थतावच्छेदकम्, उद्देश्यतावच्छेदकस्य परमपदार्थधर्मस्यापि तद्रूपतयानन्वयापत्तेः । ..
नन्वेकानन्तरमपराभिधाने सतित्वमपेक्षितं न तु तत्प्रदर्शनम् ; तथा च प्रत्यक्षोपजीवकत्वादिना कार्यत्वरूपसङ्गतिप्रदर्शनमफलम् । न च प्रत्यक्षानन्तरमनुमानं निरूप्यत इत्यभिधाने तत्पूर्वमेव किमेतन्न निरूपितमित्याकाङ्क्षोदयान्निरूपणपौर्वापर्यानियामकस्य प्रत्यक्षानुमानयोरुपजीव्योपजीवकभावस्य प्रदर्शनमावश्यकमिति वाच्यम् । निरूप्यनिरूपकयो