________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
3032
A DESCRIPTIVE CATALOGUE OF
Beginning:
नत्वा नन्दतनूजसुन्दरपदं स्मृत्वा गुरोरादरादुर्वीमण्डलमण्डनायितवशोराशेरशेषा गिरः । सप्तिोक्त्यतिदक्षदीधितिकृतः प्रत्यक्षचिन्तामणि
व्याख्यां व्याकुरुते गदाधरसुधीर्मोदाय विद्यावताम् ।। __ गुरुकीर्तनरूपमङ्गलं कुर्वाण एव स्वीयनन्थे प्रेक्षावत्प्रवृत्त्यर्थं तदुत्कर्ष दर्शयति-गिरमित्यादिना । हृदये मानसे निधानं सम्बन्धसम्पा‘दनम् । मनसि गुरुगिरां संबन्धः स्वार्थज्ञाने जननीये तत्सहकारित्वम् । . . . . . . . . . . . . .
प्रमाणतत्त्वे निरूपयितव्ये महर्षेः प्रमाणादितत्त्वप्रतिपादकशास्त्रप्रणेतृत्वाद्यभिधानस्य सफलत्वं दर्शयति-प्रेक्षावदिति । प्रेक्षावतां विवेचकानां प्रकृष्टफलोद्देशमन्तरेण शास्त्राध्ययनेऽप्रवर्तमानानामिति यावत् । तेषां स्वीयग्रन्थाध्ययने प्रवृत्त्यर्थमित्यर्थः । स्वीयग्रन्थस्य प्रयोजनवत्तां परमप्रयोजनी भूतनिःश्रेयसरूपफलवत्तामभिधेयसंबन्धौ च प्रमाणतत्त्वरूपं प्रतिपाद्यं प्रतिपादकत्वरूपं तत्संबन्धञ्चाहेत्यन्वयः.
End:
अनुमित्युपनीतेति । एकट्यादिक्षणान्तरितजन्मनि । तस्मिन्निति। प्रामाण्यानुमितितृतीयादिक्षणजातव्यवसाय इत्यर्थः । सुतरामसंभवीति । तदनुव्यवसायपूर्व प्रामाण्यानुमितेरसत्त्वादिति भावः । विनश्यदवस्थपरामर्शजन्यानुमितेः अनुव्यवसाये परामर्शोपनीतधूमवत्त्वस्य विशेष्यांशे न भानसंभवः । तत्पूर्व परामर्शानाशात् । एवं धर्मितावच्छेदकधर्मवद्विशेष्यकत्वावच्छेदेनैव विशेषणप्रकारकत्वमनुव्यवसायो गृह्णातीति बौद्धाधिकारविवृतौ स्वयं लिखितम् । तथासत्यनुमितौ साध्यव्याप्यस्य धर्मितावच्छेदकतया भाने तद्वति साध्यप्रकारकत्वस्यानुमित्यनुव्यवसाये भानं न संभवति । अतो लिङ्गोपधानमतावलम्बेन मूलोक्तं तदुपपादयति----धूमवतीत्यादि ॥
For Private and Personal Use Only