________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
2804
A DESCRIPTIVE CATALOGUE of
Beginning:
त्रयीयुवतिमस्तकस्फुरदुदारमुक्तामणि त्रिलोकपरिरक्षणक्रमधुरीणरक्षामणिम् । प्रपन्नजनमानसप्रियवितीर्णचिन्तामणिं
नृसिंहमहमाश्रये निखिलदेवचूडामणिम् ॥ अथेदानीमुद्देशक्रमप्राप्तचूडाकरणविधिराभिधीयते
द्वितीये वा तृतीये वा कर्तव्यं श्रुतिचोदनात् । कारिका
तृतीये वत्सरे चौलं कुर्वीतास्योत्तरायणे । शुक्लपक्षे शुभरूं तु कृत्वाभ्युदयिकं तथा ॥
एकस्मिन्नुक्तकालेऽपि सिंहस्थे गुरौ चौळकर्म (न) कार्यमित्याह गर्गः
न गुरौ सिंहराशिस्थे सिंहांशकगतेऽपि वा ।
क्षौरमन्नं न कुर्वीत विवाहं गृहकर्म वा ॥ तदेतन्नर्मदोत्तरविषयमित्याहुः । उक्तञ्च ग्रन्थान्तरे
नर्मदोत्तरदेशे तु सिंहस्थे देवमन्त्रिणि । शुभकर्म न कुर्वीत निषेधो नास्ति दक्षिणे । इति ॥
End:
अथ प्रयोगः
वरो वध्वा सह पञ्चमदिवसे अभ्यज्य, स्नात्वा, देशकालौ संकीर्त्य, आवयोरायुरारोग्यादिसर्वकामावाप्तिद्वारा श्रीपरमेश्वरप्रीत्यर्थ स्तम्भबल्युत्सवाख्यं कर्म करिष्य इति संकल्प्य. . . . .
इन्द्रादिलोकपालांश्च प्रस्तरादि चतुर्थ्यन्तनमोक(क)नाममन्त्रैस्सम्प्रार्थ्य, ब्राह्मणैर्बन्धुभिस्सह तज्जलमभिषिच्य, सर्व स्तम्भबलिं ब्राह्मणेभ्यो दत्वा, यथाशक्ति दक्षिणां दत्वा बन्धुभिस्सह भुञ्जीत ॥
For Private and Personal Use Only