________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
2803
यदि दीर्घायु(ष्व)त्वन्तदा तु कषाया मांसं, यदि ब्रह्मवर्चसन्तदा आद्यामांसं, यदि सर्वकामः तदा सर्वमांसानि क्रमेण प्राशयेत् । एकीकृत्वा(त्य) वा अस्य कर्मणः समृद्धयर्थं ब्राह्मणमेकं भोजयिष्य इति सङ्कल्प्य, ब्राह्मणं भोजयेत् ।।
इत्यन्नप्राशनं समाप्तम् ॥ Colophon:
इत्यग्निहोत्रिहरिहरविरचितायां पारस्क(र)गृह्यसूत्रव्याख्यानपूर्विकायां प्रयोगपद्धतौ प्रथमकाण्डं समाप्तम् ॥
अथ चूडाकरणकेशान्ते तन्त्रेण सूत्रयति । सांवत्सरिकस्य चूडाकरणं तृतीये वाप्रतिहते । संवत्सरमब्दमातिक्रान्तं यस्य स सांवत्सरिकः । तस्य कुमारस्य चूडाकरणं चूडाकर्म कुर्यात् तृतीये वा संवत्सरे End: __अत्र छन्दसामुत्सर्गोपदेशादङ्गाध्ययनमनुज्ञायते । अथेमामृचं जपेत्उभा कवि(गावी)युवा इति । आचार्येण सह शिष्याः उभा क(गावी युवाना यो नो धर्मः परापतत् । परिसंख्यस्य धर्मिणो विसंख्यानि विसृजामहा इति एतामृचं जपति । त्रिरात्रं सहो य विप्रतिषे(ष्ठे)रन्, एकत्र उषित्वा विप्रतिषे(ठे)रन् । विप्रवासं कुर्युः विशेषेण प्रवासं कुर्युरिति सूत्रार्थः ॥
No. 3721. प्रयोगपारिजातः.
PRAYOGA PĀRIJĀTAĦ. Substance, palm-leaf. Size, 18% x 13 inches. Pages, 322. Lines, 8
on a page. Character, Nandināgarī. Condition, injured.
Appearance, old. Complete.
A work by Nrsimha treating of the 16 kinds of domestic rituals. with index.
For Private and Personal Use Only