________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1670
A DESCRIPTIVE CATALOGUE OF
This deals with the holiness and greatness of Kundāranya, now called Avidayārköil in the Tanjore district, and is said to have been related by Brahma to Närada.
Beginning:
प्रणिपत्य जगन्नाथं पद्मयोनि पितामहम् । नारदः परिपप्रच्छ प्राञ्जलिविनयान्वितः ॥ भगवन् सर्वदेवेश सर्वज्ञ करुणानिधे । त्वत्तः श्रुता मया धर्मा वर्णाश्रमसमाश्रिताः ॥ क्षेत्राणामपि पुण्यानां तीर्थानामपि सत्तम । इदानीं श्रोतुमिच्छामि तत्त्वसारमनुत्तमम् ॥ पुरा कूरेश्वरो नाम महादेव उमापतिः । कुन्दारण्ये महापुण्ये सर्वसिद्धिप्रदायके । नित्यं पद्मसहस्रेण समाराध्य तु केशवम् । ब्रह्महत्याविनिर्मुक्तः ब्रह्मानन्दमवाप्तवान् ॥ इति संक्षेपतः प्रोक्तं भवता मम वत्सलात् । विस्तारात् श्रोतुमिच्छामि तस्यारण्यस्य वैभवम् ।
ब्रह्मा
तात नारद देवर्षे धन्योऽसि कृतपुण्यवान् । यत्त्वया स्मारितोऽस्म्यद्य पुरा वृत्तान्तमद्भुतम् ॥ तदद्य शृणु वक्ष्यामि सावधानतयानघ । पुरा कैलासशिखरे रम्योद्यानसमावृते ॥ सर्वर्षिभिस्समाकीर्णे दिव्यगन्धर्वसेविते । अप्सरोगणसंकीर्णैरिन्द्राद्यैरभिसंवृते ॥
For Private and Personal Use Only