SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1665 THE SANSKRIT MANUSCRIPTS. के धर्माः के ह्यनुष्ठेयाः कैस्सिद्धिं लभते नरः । विशिष्टः कश्च धर्मेषु प्रख्यातश्च मनीषिभिः ।। त्वं हि सर्वविदां श्रेष्ठो वक्तणाश्चाधिको मतः । तन्नियोक्ष्यामहे श्रोतुं त्वां धर्मश्रावकं वयम् ॥ पूर्वैराचरितान्धर्मान् सरहस्यान्विधानतः । अघनांश्चित्तशुद्ध्यर्थ त्वं नो विस्तरतो वद ।। एवं पृष्टो महाभागैरप्येभिस्तत्त्वदर्शिभिः । विस्मयाविष्ट(हृदयः) सूतस्तानिदमब्रवीत् ॥ सूतःअहो यूयं महाभागा अपि धर्मैकलिप्सवः । मत्तः शुश्रूषवो धर्मान् मां पृच्छथ किमुत्तरम् ।। अथाप्यहं प्रवक्ष्यामि यथामति सतां मुदे । गुरोः प्रसादान्महतः कृष्णद्वैपायनस्य वै ।। श्रुतिस्मृतिसम()र्थानां नि(नी)तानामिव दुग्धतः । शृणुताखिलधर्माणां परं भावं महर्षयः ॥ ज्योतिष्टोमादयस्सर्वे क्रतवश्वाप्तदक्षिणाः । अभयादीनि दानानि वैभवादिव्रतानि च ॥ मन्त्रा वेदा जनन्याद्याः स्मृताः परमपावनाः । एतेष्वपि च सर्वेषु धर्मेषु मुनिपुङ्गवाः ।। सत्यमेव परो धर्म इति शास्त्रविनिश्चयः । सर्वानपि च वै धर्मान् सत्यमेवात्यरेचयत् ।। End: श्रीमदक्षिणकैलासमाहात्म्यञ्च तथैव हि । जीवन्मुक्तिप्रदानश्च लिङ्गानां चरितं यतः ॥ For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy