SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 1638 Beginning: . . . . . . . . . ददौ बहुधनं नृपः । ततो निजगृहं प्राप्य स्नात्वापीदं निवृत्य च ॥ तत्रैकं शिशुमालोक्य न पश्यन् लिङ्गमीशितुः । अतिखिन्नमना भूत्वा दिवा तत्याज भोजनम् ।। शिशुं तत्रैव संस्थाप्य चिन्तयन्नात्मनीश्वरम् । रात्री सुप्तिं समापन्नः तदा शम्भुरपि स्वयम् ॥ स्वप्ने तस्य वचः प्राह गृहाणेमं शिशुं नृप । शिवपूजाफलं तुभ्यं ददाम्येव न संशयः ।। इतः परं सैकतेन लिङ्गं कृत्वा प्रपूजय । मानविक्रमशाली च शिशुरेष महामतिः ॥ तस्मादेनं शिशुं रक्ष स्वात्मानं कुरु पुत्रकम् । इत्युक्त्वान्तर्दधे शम्भुः राजापि प्रातरुत्थितः ।। भार्यायै स्वप्नमावेद्य शिशु तस्यै ददौ नृपः । सापि सत्यवती बालमादायातीव हृष्टधीः ।। पालयामास तं बालं सा नित्यं परया मुदा ।। स राजा वचनाच्छम्भोः सैकतं लिङ्गमर्चयन् ।। * Colophon : इति श्रीस्कान्दोपपुराणे शिवभक्तमाहात्म्ये सप्तविंशोऽध्यायः ॥ इति श्रीस्कान्दोपपुराणे शिवभक्तमाहात्म्ये क्षपणान्तक चरिते ए. कोनपञ्चाशोऽध्यायः ॥ For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy