________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1869
THE SANSKRIT MANUSCRIPTS. मुनयो नैमिशारण्ये दीर्घसत्रे यतव्रताः । अष्टादशपुराणज्ञमपृच्छन् सूतमागतम् ॥
ऋषयः-- सूत सर्वपुराणज्ञ व्यासशिष्य महामते । सन्दिहाना वयं सर्वे पृच्छामस्त्वां महत्तरम् ॥ विचारितेऽपि वेदान्ते तदर्थेच(ऽव)गतेऽपि च । अष्टादशपुराणेषु श्रुतेषुपि महत्सु च ॥
एतत्तत्त्वमशेषेण विस्तराद्वक्तुमर्हसि । इति पृष्टो(ष्ट)ऋषिवरैस्सूतः सर्वार्थतत्त्ववित् ।। नमस्कृत्वा महाभागश्शिवाय गुरुमूर्तये । विघ्नेशं भारती देवी सम्प्रदायप्रवर्तकान् ।। प्रणम्य परया भक्तया वक्तुमेवोपचक्रमे ।
. श्रीसूतः-- साधु पृष्टं मुनिश्रेष्ठाः श्रोतव्यं यद्विशेषतः । श्रुतं यथा गुरुमुखात् यथामति वदामि वः ।। वेदागमपुराणेषु मन्त्रेषु सकलेषु च । एक एव महादेवः विकारेषु यथार्णवम्(ः) ॥
संशयो यदि युष्माकं शौनकाद्या महर्षयः । आस्मिन्नर्थे निवृत्त्यर्थमेतस्येदमुदीर्यते ॥ . व्यासेन मुनिना प्रोक्तं भक्तमाहात्म्यमुत्तमम् । श्रुत्वा पुराणं भवतः सर्वे सञ्छिन्नसंशयाः ॥
210
For Private and Personal Use Only