________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
1783
सूतः-- इत्थं भागवतस्यायं महिमा वर्णितो द्विज ।
त्वस्ता(श्चा)पि श्रद्धया युक्तो(क्तः) तत्र निष्ठां समाचर ॥ Colophon:
इति श्रीब्रह्मवैवर्तपुराणरहस्ये श्रीभागवतश्रवणमहिमानुवर्णनं नाम दशमोऽध्यायः ॥
__ पाद्मपुराणस्थं भागवतमाहात्म्यम्Beginning :
यं प्रव्रजन्तमनुपेतमपेतकृत्यद्वैपायनो विरहकातर आजुहाव । पुत्रेति तन्मयतया तरवो विनेदुः तं सर्वभूतहृदयं मुनिमानतोऽस्मि ।। नारायणं नमस्कृत्य नरञ्चैव नरोत्तमम् । देवीं सरखतीं व्यासं ततो जयमुदीरयेत् ॥
शौनकः ---- अज्ञानध्वान्तविध्वंसकोटिसूर्यसमप्रभम् । सूताख्याहि कथासारं मम कर्णरसायनम् ॥ भक्तिज्ञानविरागाप्तिविवेको वर्धते यथा । इह घोरे कलौ प्राप्ते जीवश्चासुरतां गतः ॥ क्लेशाक्रान्तस्य तस्यैव शोधने किं परायणम् । श्रेयसां यद्भवेच्छ्रेयः पावनानाञ्च पावनम् ॥ कृष्णप्राप्तिकरं शश्वत् साधनं तहदाधुना ।
सूतःचिन्तामणिर्लोकसुखं सुरगुः खर्गसम्पदम् । प्रयच्छति गुरुः प्रीतो वैकुण्ठं योगिदुर्लभम् ॥
For Private and Personal Use Only